________________
___ १०४
दुर्गा-पुष्पाञ्जलिः इतीव सत्यापयितु निरूढं
वन्दामहे हारिहरस्वरूपम् ॥८॥ एतन्मायिकनामरूपरचनाप्राग्भारविस्फूर्जितं
सत्यं वानृतमेव वेत्युभयथावादेऽपवादास्पदम् ।
वन्दालहर
मायावतारेपु त्रिगुणात्मिकां नामरूपशय्यामधितिष्ठत्सु । भिदायाः भेदनं भिदा । 'पिद्भिदादिभ्योऽड्' इत्यङ्प्रत्ययः । तस्याः अवकाशः अवसरः नोपतिष्ठते । तथा च रामतापिन्याम्
'चिन्मयस्याद्वितीयस्य निष्कलस्याशरीरिणः ।
उपासकानां कार्यार्थे ब्रह्मणो रूपकल्पना ।।' एवम्
'ब्रह्मविष्णुशिवा ब्रह्मन् प्रधाना ब्रह्मशक्तयः ।' इत्यादिकं योगवार्तिकादिपु प्रतिपद्यामहे । अस्यैवोपबृहणम्
'निर्विशेष परं ब्रह्म साक्षात्कर्तुमनीश्वराः । ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणै. ॥ वशीकृते मनस्येषां सगुणब्रह्मशीलनात् ।
तदेवाविर्भवेत् साक्षादपेतोपाधिकल्पनम् ।।' इति । इतीव सत्यापयितुं एवमिदमिति सत्याभिधित्सया एव । सत्यापशब्दात् 'सत्यापपाशे ति णिच् ततस्तुमुन् । निरुढं अनादिकालात् प्रसिद्ध हारिहरस्वरूपं चन्दामहे ।
६- एतत् दृश्यात्मना परिणतं, जनैरनुभूयमानं वा । मायिकनामरूपरचनाप्राग्भारविस्फूर्जितं मायिकी मायोद्भाविता या परब्रह्मणः नामरूपयोः रचना अनन्तप्रकारायमाणः कल्पनाविन्यास', तस्याश्च य. प्रारभारः, उत्कर्षः तेन विस्फूर्जितं विविधाकारवहलम् । सत्यं ऋतं अनृतं असत्यं वा, इति एवंरूपेण
* इह प्रकृतयोः हरिहरयोः परमार्थतत्त्वं परामशद्भिः पुष्पाञ्जलिकाराणां अस्मत्पितामहचरणानां चातुर्वर्ण्यशिक्षायाः वेददृष्टि सधीविभवं विभावनीया ।