________________
हरिहराष्टकम् उत्सर्पिगङ्गायमुनोर्मिसंस्थं
वन्दामहे हारिहरस्वरूपम् ॥ ६ ॥ पर्यन्तभीमा गुणभेददृष्टि
.. मा भूच नौ मायिकविग्रहेऽपि । इत्युल्लसद्वर्णविपर्ययामं
वन्दामहे हारिहरस्वरूपम् ॥ ७॥ न वस्तुतो ब्रह्मणि कल्पितेषु
मायावतारेषु भिदावकाशः ।
तस्मिन् संस्थं अवस्थितम् । परस्परं संपृक्तयोः गङ्गायमुनयोः सङ्गम इव कमपि विच्छित्तिविशेषमावहन्तमिति भावः । एतवर्णनानुरूपमेव इहेदं पद्यद्वयम्'परिणतशरदिन्दुसुन्दराभं -
वदनमनभ्रनभोनिभश्च कण्ठः। . . इति शुभमुभयं विभोरभिन्न
त्रिदशधुनीयमुनाविडम्बि वन्दे ।। हिमहिमकरहारि वारि गाङ्ग
कुवलयकान्ति कलिन्दकन्यकाम्भः । इवि शुभमुभयं प्रभुप्रसादाद्
वपुरिव हारिहरं वरं प्रपद्ये ॥' ७- नौ श्रावयोः मायिकविग्रहे माया अस्ति अस्येति मायिकः ठन् । मायाजनितः काल्पनिको वा यो विग्रहः शरीराधानं तस्मिन्नपि । पर्यन्ते तत्त्वतः - परमार्थाकलनप्रसङ्गे भीमा भेदोपस्कारकतया भयोत्पादिनी । गुणैः सत्वरजस्तमोरूपः, या भेददृष्टिः पृथक्तया हरिहरयोः स्वरूपप्रतिपत्तिः, सा मा भूत् मा प्रसाङ्क्षीत् । 'न माझ्योगे' इत्यडागमप्रतिषेधः । इति हेतोः उल्लसन्ती स्फीतं चकासन्ती वर्णविपर्ययस्य अन्योन्यश्यामगौररूपायाः वर्णसङ्क्रान्तेः अाभा दीप्तिर्यस्मिन् तत् । शेष स्पष्टम् ।
८- वस्तुतः परमार्थदृशा, ब्रह्मणि प्रत्यगात्मस्वरूपे परब्रह्मणि, कल्पितेषु उपासकजनचित्तावतरणार्थं नानाविधां नामरूपात्मिकां कल्पनाभूमिमवतीर्णेषु ।