________________
दुर्गा-पुष्पाञ्जलिः सरस्वतीगीतगुणप्रवाह
चन्दामहे हारिहरस्वरूपम् ॥ ४ ॥ गाङ्ग स्तरङ्गरधऊर्ध्वशोभि
विशेषितं शेषविजृम्भितेन । शङ्खावदानाकलनासु कल्यं
वन्दामहे हारिहरस्वरूपम् ॥ ५ ॥ अन्योन्यकायच्छविकल्पितेन
श्यामेन गौरेण च रोचिषाढ्यम्।
भावः । परत्र शिवरूपे, गौर्या. पार्वत्या. यो गुरुताप. पतित्वावाप्तिरूपफलकामनया गभीरतमः संतापः, तं हरति इति तथाभूतम् । सरस्वत्या वाग्देवतया गीतः वाच्य-लक्ष्य व्यङ्गथविधया प्रकाशितः गुणानां प्रवाहो यस्य तत् । शेष प्राग्वत् ।
५-गागः मन्दाकिनीप्रभवै. तरङ्गः वीचिच्छटाभिः । अधः चरणप्रान्ते ऊर्ध्व शिरोभागे च शोभते इत्यधऊर्ध्वशोभि । विष्णुपदाद् शिवस्य जटाजूटाच्च भागीरथ्या उद्गम इति पुराणादिपु सुव्यक्तम् । तत एव चास्या विष्णुपदीति नाम लोके प्रथां प्रापत् । एवं मुद्राराक्षसादौ 'धन्या केयं स्थिता ते शिरसि' इत्युपक्रम्य
'देव्या निहोतुमिच्छोरिति सुरसरितं शाध्यमव्याद् विभोर्वः । इति । तथा
'स्खलन्ती स्वर्लोकादवनितलशोकापहृतये ।
जटाजूटग्रन्थौ यदसि विनिवद्धा पुरभिदा ।' इति गङ्गालहर्यादौ च कवीनां वानिष्यन्द. । शेप सर्पराजो वासुकिः तस्य विजृम्भितेन एकत्र शय्यास्तरणादिना परत्र कण्ठाद्याभरणतां गतेन तत्तद् विलसितेन । विशेषितं प्रेमास्पदीभूतम् । शङ्खः पाञ्चजन्यं नागविशेषश्च । तस्य यत् अवदानं विक्रमाचरितं तस्य आकलनासु अनुसन्धानेपु कल्यं निपुणम् । अन्यत्स्पष्टम् ।
६-अन्योन्यस्य परस्परत्य या कायच्छविः देहा तिः तया कल्पितेन प्रतिविम्बितेन श्यामेन श्यामवर्णेन गौरेण गौरवर्णेन च रोचिपा प्रभया पाट्यम्विचम् । उत्सर्पिणी अन्योन्यव्यतिपक्ता या गङ्गायमुनयोः अमि. तरङ्गसंतति.