________________
हरिहराष्टकम् हरिहरस्यैप हरो हरेश्च
सौहार्दसीमानमुपैति बाढम् । इत्यादराद् व्यासगवीषु गीतं
वन्दामहे हारिहरस्वरूपम् ॥ ३ ॥ एकत्र लक्ष्मीललितानुकारि
परत्र गौरीगुरुतापहारि ।
'शिवादिक्षितिपर्यन्तं विश्वं वपुरुदब्बयन् ।
पञ्चकृत्यमहानाट्यरसिकः क्रीडति प्रभुः ॥ इत्येवमायुक्तयः प्रथन्ते । चतुर्थश्चरणः सर्वत्र समानार्थको यथायथं योजनीयः ।
३-एष हरिः हरस्य, हरश्च हरेः बाढं अत्यन्तं यथास्यात्तथा । सौहार्दस्य अन्योन्यानुरागरूपस्य सीमानं उत्कर्षातिरेकं उपैति प्राप्नोति । हरिहरयोः परमार्थतो न कश्चन भेदप्रसर इति तात्पर्यम् । इति हेतोः व्यासगवीषु कृष्णद्वैपायनोक्तिषु आदरात श्रद्धाभरात् गीतं सविशेषमुपश्लोकितम् । तथा च हरिहरयोः स्नेहानुबन्धमुदिश्य महाभारते
'यस्त्वां वेत्ति स मां वेत्ति यस्त्वामनु स मामनु । नावयोरन्तरं किंचिन्मा ते भूद् बुद्धिरन्यथा ॥ अद्यप्रभृति श्रीवत्सः शूलाको मे भवत्वयम् । मम पाण्यङ्कितश्चापि श्रीकण्ठस्त्वं भविष्यसि ।।'
(शान्तिप. मोन. अ. ३४३ श्लो. १३३-१३४) तत एव च
' 'उभयोरेका प्रकृतिः प्रत्ययभेदाच्च भिन्नवद्भाति ।
कश्चिन्मूढः कलयति हरिहरभेदं विना शास्त्रम् ॥' इत्याधु च्यमानं पर संवादमावहति । हरतीति हरिः हरश्च । पूर्वत्र 'अच इ.' (उणा. ४।१३६ ) परत्र ‘पचाद्यच्' (पा. सू. ३. १. १३४)। - --४-एकत्र विष्णुरूपत्वप्रथां दधाने सति । लक्ष्म्याः ललितं शृङ्गारानुगुणश्चेष्टाविशेषः तं अनुकरोति अनुसरति इति तथाभूतम् । शृङ्गारोदयैरुपस्कृतमिति