________________
१००
दुर्गापुष्पाञ्जलिः
हरिहराष्टकम् ।
एकत्र शृङ्गाररसानुविद्ध
परत्र वैराग्यपथाधिरूढम् । परस्परस्नेहगेकदृश्यं
वन्दामहे हारिहरस्वरूपम् ॥ १ ॥ उपासनाकोटिकथानकेऽपि
द्वतोपसर्गस्य जिहीर्षयेव । अद्वतभावार्पितकलिकायं
वन्दामहे हारिहरस्वरूपम् ॥ २ ॥
हरिहराष्टकम् ।
१-एकत्र विष्णुरूपात्मना लीलाविग्रहतामुपेयुपि, शृङ्गाररसेन ललितमधुराभि शृङ्गाररस-विच्छित्तिभिः, अनुविद्धम् आश्लिष्टम् । शृङ्गाररसोजितां भूमिकामादधानमिति यावत् । परत्र शिवात्मना अवतीर्णः सन् । वैराग्यपथं विरागस्य भावो वैराग्यम् । तस्य पन्थाः वैराग्यपथः । समासान्तोऽच् प्रत्यय. । 'विषयवि. तृष्णस्य वशीकारसंज्ञा वैराग्यम् ।' (यो. द. १. १५) तस्मिन् अधिरूढः तम् । वैराग्यभावमनुप्रविष्टमिति यावत् । परस्पर अन्योन्यं स्नेहहशा अनुरागातिशयेन एक अभिन्न दृश्यं साक्षात्कारो यस्मिन् । तथाविधं हारिहरस्वरूपं हरिहरयोरिदं हारिहरं स्वरूपं वन्दामहे प्रतीभावेन आनताः स्म. 1 उपजाति-वृत्तम् ।।
२-उपासनानां ईश्वरोपास्तीनां याः कोटयः उच्चावचा. भेदोपभेदाः तासां कथानके विविधाख्यानवैचित्र्योद्भासिते सत्यपि । द्वतोपसर्गस्य द्विधा इतं द्वीतं तस्य भाव द्वैतम् द्विवाभाव. पार्थक्यमिति यावत् । तदेव असद पप्रवृत्ततया उपसर्ग. उत्पातः तस्य जिहीर्या हातुमिच्छा । 'योहार त्यागे' इत्यत सन्नन्तादप्रत्ययः । तया इव । सर्वात्मना द्वैतच्छेदायवेत्यर्थः । अद्वैतभावे एकस्मिन् चिद्र पपरमार्थे अर्पितः उपसर्जनीकृत. केलिरूप. काय. विग्रहो यस्मिन् तथाभूतम् । तत एव अनुत्तरप्रकाशपश्चाशिकादिपु