________________
चण्डीशाष्टकम्
उच्चैर्दोर्दण्डखण्ड भ्रमणवलयिताशेभचीत्कारचण्डं
εξ
पादप्रक्षेपकम्प्रक्षिति मदनकृपस्ताण्डवं नः पुनातु ||८|| ॥ इति - चण्डीशाष्टकम् ॥
वेगवती चटचटाकारिणी चढचदेति शब्दायमाना, वृष्टिः वर्षणं तया प्रकृष्टं भव्यम् | उच्चैः उन्नतस्य, दोर्दण्डस्य भुजयुगलस्य, यः खण्डः शकलं तस्य भ्रमणेन इतस्तत. चलनेन वलयितानां सर्वतो वेष्टितानां, श्राशानां दिङ्मण्डलानां, ये इना करिणः तेपां चीत्कारेण चीत्कारशब्देन भयोत्पादकेन वृंहितेन वा चण्ड अत्युग्रम् । पादप्रक्षेपकम्प्रक्षिति पादप्रक्षेपेन पादन्यासेन कम्प्रा कम्पनवती क्षिति, धरित्री यस्मिन् । एतादृशं मदनकृषः मन्मथमानभञ्जकस्य शिवस्य ताण्डव तण्डुना मुनिना प्रोक्तः सुप्रसिद्धो नृत्यविशेष. । न अस्मान् पुनातु पवित्रीकरोतु ।
॥ इति चण्डीशाष्टकम् ॥
१ - नृत्यं तावत् पुंस्त्रीभेदभिन्नतया द्विविधं परिभाष्यते । तत्र पुं नृत्यस्य प्रतिनिधिभूतं ताण्डव स्त्रीनृत्यस्य च लास्यम् ।
यथोक्तम्
'पु' नृत्यं ताण्डवं प्राहु स्त्रीनृत्यं लास्यमुच्यते ।' इति ।
तदिदमुभयं जगतो मातापितृभ्यां पार्वतीपरमेश्वराभ्यां प्रवर्तितं मिथुनसृष्टिरूपस्यास्य विश्व-प्रपश्चव्यापारस्य तद्गतस्य च आनन्दरसोल्लासस्य सर्वस्वभूतम् । कल्पनयैवास्य सकलमपि ब्रह्माण्डं परिभ्रमन्निव श्रलक्ष्यते । एकेनैवानेन सौरमण्डलादारभ्य धरामण्डलान्तः विश्वविकासस्काररूपः सर्वोऽपि क्रियाकलाप. प्रतिबिम्बितः सन् ताण्डवस्य विलक्षणं ज्ञानगूढं च रहस्यमाचेदयति ।