________________
दुर्गा-पुष्पाञ्जलिः
शिव-गाथा ।
जय जय गिरिजालंकृतविग्रह;
.जय जय बिनताखिलदिक्पाल । जय जय सर्वविपत्तिविनाशन,.
जय जय शंकर दीनदयाल ॥ १ ॥ जय जय सकलसुरासुरसेवित,
जय जय वाञ्छितदानवितन्द्र । जय जय लोकालोकधुरंधर,
जय जय नागेश्वर धृतचन्द्र ॥२॥
शिव-गाथा । १- गिरिजया पार्वत्या अलंकृत. विभूपितः विग्रह. देहो यस्य तत्संबुद्धिः । जय जयेति सर्वत्र वी'सायां द्विरुक्ति.। विनता. प्रणताः अखिलाः समस्ताः दिक्पाला दिशामधीशाः यस्य स. । सर्वासां विपत्तीनां आपदां विनाशनः संहारकः । दीनेषु दुर्गतेषु दयनीयेषु वा दयाल. दयालु' । दीनदयालशब्दो
आर्तत्राणमभिदधत् ईश्वरपर्यायतया लोके वहुलं प्रयुज्यते । स चात्र कविनोपनिवद्धो भक्तस्य अधिकाधिका देवविपयां रतिं पुष्णाति । एवमादिस्थलेषु अपभ्रंशशब्दा अपि प्रयुज्यमाना रसभावादिपरिपोषकतया परं चारुत्वोत्कर्ष घटयन्तीति कविसमयः। क्वचित् सत्यावश्यके प्रासनिर्वाहार्थमपि तथा प्रयुज्यमानं न दोषायेति शब्दसाधुत्वपक्षपातिभिर्नात्र विमनायितव्यमिति सक्षेप. । एवमुत्तरत्रापि द्रष्टव्यम् । अस्यां गीतिकायां भगवतः स्वाभिमुखीकरणाय सर्वेऽपि संबोधनान्ता एव शब्दा प्रयुक्ता इति तेषां समास-विग्रह-प्रदर्शनावसरे प्रतिपदं संवोधननिर्देशो मन्दप्रयोजन इति कृत्वा नैवाहत इत्यवधेयम् ।
२- सकलै समस्तः सुरासुरै. देवः दानवैश्च सेवित. भक्त था समुपासितः । वाञ्छितस्य मनोमिलपितस्य दाने वितरणे वितन्द्रः विगता तन्द्रा यस्य तथाभूतः निरालस इत्यर्थः । लोकालोकस्य लोकानां त्रिभुवनरूपाणां आलोकः प्रकाशः