Book Title: Durgapushpanjali
Author(s): Jinvijay, Gangadhar Dvivedi
Publisher: Rajasthan Puratattvanveshan Mandir

View full book text
Previous | Next

Page 142
________________ दुर्गा-पुष्पाञ्जलिः चण्डीशाष्टकम् । आस्माकीनं करालं जवमिह भुवने कः सहेदित्यखळ हंकारोल्लासवल्गल्लहरिशतलुठल्लोलयादोमतल्ली । मल्लीमालेव यस्योद्भटविकटजटाकोटरे निष्पतन्ती दीव्यत्यभ्रस्रवन्ती स मम हृदि सदा भातु चन्द्रार्धचूडः ॥१॥ व्योम्नीवाम्भोदलेखा हृद इव लहरीधोरणी पूपणीव श्यामाकान्तांशुलक्ष्मीरुदयमथ लयं याति यत्र त्रिलोकी । चण्डीशाष्टकम् । १-इह भुवने जगतीतले श्रास्माकीनं आवयोरस्माकं वा अय आस्माकीन इति विग्रह', तम् । श्रास्माकमित्यर्थः । अस्मदः खन् , ईनादेश , ततः तस्मिन्नणि च युष्माकास्माको' (पा. सू ४.३.२) इत्यास्माकादेशः । करालं भयोत्पादकं जवं जलप्रवाहवेगं कः सहेत् , को नाम धन्यः सोढुं शक्नुयात् । इति हेतोः अखर्वः अत्युन्नत. य अहङ्कारोल्लास अभिमानोदय. गर्वाह्लादो वा तेन वल्गन्तीनां अहमहमिकया प्लुतं प्रवहन्तीनां, लहरीणां महातरङ्गाणां यत् शतं तत्र लुठन् इतस्तत उपसर्पन , लोल. चञ्चल', यादोमतल्ली प्रशस्तो जलचरः यस्यां तथाभूता । 'यादांसि जलजन्तव' इत्यमरः । अभ्रं गगनं ततः सवन्ती अभ्रस्रवन्ती जह नुतनया । मल्लीमालेव, मल्ली स्वेतवर्णो मल्लिकापुष्पः, तस्याः मालेव स्रगिव यस्य उद्भटविकटजटाकोटरे उद्भटा प्रशस्ता विकटा विशाला च या जटा केशपाशः तस्याः कोटरे गहरे निष्पतन्ती अधस्खलन्ती दीव्यति शोभामावहति । स चन्द्रार्धचूडः, चन्द्रार्धः चूडायां जूटिकायां यस्य एवंविधः भगवानिन्दुमौलि. मम तच्चरणैकशरणस्य हृदि हृदयाद” सदा निरन्तरं भातु उल्लसतु । स्रग्धरोवृत्तम् । २-योम्नि नभोमण्डले, अम्भोदलेखा इव अम्भो ददाति इति अम्भोदो वारिवाहः, तस्य लेखा इस पडिकरिव । हदे अगाधजलाशये लहरीणां महावीचीनां धोरणी इव परम्परेव । पूपरिण भास्करे श्यामाकान्तांशुलक्ष्मीरिव श्यामा रात्रिः

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201