________________
दुर्गा-पुष्पाञ्जलिः
चण्डीशाष्टकम् । आस्माकीनं करालं जवमिह भुवने कः सहेदित्यखळ
हंकारोल्लासवल्गल्लहरिशतलुठल्लोलयादोमतल्ली । मल्लीमालेव यस्योद्भटविकटजटाकोटरे निष्पतन्ती
दीव्यत्यभ्रस्रवन्ती स मम हृदि सदा भातु चन्द्रार्धचूडः ॥१॥ व्योम्नीवाम्भोदलेखा हृद इव लहरीधोरणी पूपणीव
श्यामाकान्तांशुलक्ष्मीरुदयमथ लयं याति यत्र त्रिलोकी ।
चण्डीशाष्टकम् । १-इह भुवने जगतीतले श्रास्माकीनं आवयोरस्माकं वा अय आस्माकीन इति विग्रह', तम् । श्रास्माकमित्यर्थः । अस्मदः खन् , ईनादेश , ततः तस्मिन्नणि च युष्माकास्माको' (पा. सू ४.३.२) इत्यास्माकादेशः । करालं भयोत्पादकं जवं जलप्रवाहवेगं कः सहेत् , को नाम धन्यः सोढुं शक्नुयात् । इति हेतोः अखर्वः अत्युन्नत. य अहङ्कारोल्लास अभिमानोदय. गर्वाह्लादो वा तेन वल्गन्तीनां अहमहमिकया प्लुतं प्रवहन्तीनां, लहरीणां महातरङ्गाणां यत् शतं तत्र लुठन् इतस्तत उपसर्पन , लोल. चञ्चल', यादोमतल्ली प्रशस्तो जलचरः यस्यां तथाभूता । 'यादांसि जलजन्तव' इत्यमरः । अभ्रं गगनं ततः सवन्ती अभ्रस्रवन्ती जह नुतनया । मल्लीमालेव, मल्ली स्वेतवर्णो मल्लिकापुष्पः, तस्याः मालेव स्रगिव यस्य उद्भटविकटजटाकोटरे उद्भटा प्रशस्ता विकटा विशाला च या जटा केशपाशः तस्याः कोटरे गहरे निष्पतन्ती अधस्खलन्ती दीव्यति शोभामावहति । स चन्द्रार्धचूडः, चन्द्रार्धः चूडायां जूटिकायां यस्य एवंविधः भगवानिन्दुमौलि. मम तच्चरणैकशरणस्य हृदि हृदयाद” सदा निरन्तरं भातु उल्लसतु । स्रग्धरोवृत्तम् ।
२-योम्नि नभोमण्डले, अम्भोदलेखा इव अम्भो ददाति इति अम्भोदो वारिवाहः, तस्य लेखा इस पडिकरिव । हदे अगाधजलाशये लहरीणां महावीचीनां धोरणी इव परम्परेव । पूपरिण भास्करे श्यामाकान्तांशुलक्ष्मीरिव श्यामा रात्रिः