________________
चण्डीशाष्टकम्
ज्वालाजिह्वाल फालज्वलनकवलितोद्दर्पकंद वीरो
६५
हीरो वृन्दारकाणां विशदयतुतरां शेमुषीं सोऽष्टमूर्तिः ॥ २ ॥
कण्ठपीठे
उद्यत्सान्द्राम्बुवाहव्यतिकर सुषभासंनिभे
शंपाराजीव यस्यावनिधर दुहितुर्दोलता जाज्वलीति । स त्रैलोक्यनाथोऽदितितनयधुनी मुग्धडिण्डीरपिण्ड
प्रख्यः श्रीङ्कटीको मम निविडतमोग्रन्थिभेदाय भूयात् ॥ ३ ॥
तस्याः कान्तो निशापतिश्चन्द्रः तस्य अंशुलक्ष्मीरिव मयूखसुषमेव । त्रिलोकी स्वर्ग-मर्त्य-पाताल-लोकात्मकस्त्रिभुवनाभोगः, उदयं उन्मेषं, अथ लयं अस्तञ्च याति व्रजति । ज्वाला एव जिह्वा रसना तस्यां यत् आलं अनल्पं फालरूपं ज्वलनं, फालं नाम भूमिविदारणार्थ लाङ्गलमुखे आयोजितो लोहविशेषः । तेन कवलितः आत्मसात्कृतः, उद्दर्पः अहंकारावलिप्तः कंदर्पवीरः प्रशस्तबलोऽनङ्गः येन तथाभूतः । वृन्दारकाणां देवानां मध्ये निर्धारणे षष्ठी । हीर ः रत्नेषु हीरक इव मूर्धाभिषिक्तः । सः लोकवेदप्रसिद्धः । अष्टमूर्ति अष्टौ भूम्यादय. मूर्तयो यस्य तथाभूतः । तरुणेन्दुशेखर अस्माकं चरणाराधनत्रतिनां शेमुषीं प्रज्ञां विशदयतुतरां प्रकर्षविजृम्भितां संपादयतु ।
३–उद्यत् उदयं गच्छत् य सान्द्र. अम्बुवाहः नूतनो जलधर. तस्य व्यतिकरेण संपर्केण या सुषमा सौन्दर्य तत्संनिभे तत्सदृशे, घनाघन इव सौन्दर्यवाहिनि इति भाव | यस्य कण्ठपीठे कण्ठप्रदेशे, शम्पायाः सौदामिन्या. राजी इव श्रेणी इव । अवनिधरस्य हिमशैलस्य, दुहितुः आत्मजायाः पार्वत्याः, दोर्लता वाहुवलयं जाज्वलीति प्रकाशातिशयं तनोति । सः त्रैलोक्यैकनाथ. त्रयाणां लोकानां समाहार त्रिलोकी । त्रिलोकी एव त्रैलोक्यम् । 'चतुर्वर्णादीनां स्वार्थे उपसंख्यानम्' इति स्वार्थे ष्यञ् । तस्य एकनाथः श्रद्वितीयो भर्ता । श्रदितितनयाः देवाः, तेषां या धुनी तटिनी गङ्ग ेति प्रसिद्धा, तस्या मुग्धः सुन्दर यो डिण्डीरपिण्डः फेनसमूहः तत्प्रख्यः तत्संनिभ' | श्रीकङ्कटीकः महादेवः, मम भक्तिप्रव
9
१- कङ्कटीक - रेरिहाणादि शिवपर्यायतया शारदादेश - प्रसिद्धाः शव्दा. काश्मीरककाव्येषु हरविजयादिषु द्रष्टव्याः ।