________________
दुर्गा-पुष्पाञ्जलिः
संतापस्विन्नचूडामृतकिरणगलत्स्फारपीयूपधारा
भालाग्नौ यस्य दुग्धाहुतिरिव सततं स्यन्दमाना चकास्ति। स ब्रह्माण्डप्रकाशावनलयघटनानाटिकासूत्रधारो
गौरीप्राणप्रियो नः प्रथयतु नितरां तानि तानीहितानि ||४|| श्रीपीयूपादिवस्तुप्रकरविभजनोद्भूतवादकविज्ञा
देवंमन्या महेच्छा अहह कति दिवो भारभूता न सन्ति ।
णस्य निविडतमोग्रन्थिभेदाय निविडतमा अत्यन्तं घनीभूता या तमोग्रन्थिः तमोरूपं पाशवन्धनं तस्य भेदाय उन्मोचनाय शिथिलीकरणाय वा भूयात् जायताम् ।
४-यस्य शशिशेखरस्य भालाग्नौ वह्निप्रदीप्ते ललाटफलके । संतापेन दाहोष्मणा, स्विन्ना स्वेदबहुला या चूडा जूटिका, तत्सकाशात् अमृतकिरणस्य चन्द्रमस', गलन्ती अध स्रवन्ती या स्फारा प्रशस्ता पीयूषधारा अमृतजलानज्यन्दः । दुग्धस्य पयस. आहुतिरिव प्रक्षेप इव सतत अश्रान्त यथा स्यात् तथेतिक्रियाविशेषणम् । स्यन्दमाना स्रोतोरूपेण क्षरन्ती, चकास्ति सौन्दर्य बिभर्ति । स. ब्रह्माण्डस्य त्रिभुवनाभोगरूपस्य, प्रकाशावनलयाना प्रकाशः आविर्भाव, अवनं रक्षणम् , लयः तिरोधानम् । एषां त्रयाणां या घटना रचनापाटवम् , सैव नाटिका जगन्नाट्यरूपो व्यापार तस्य सूत्रधारः अभिनयप्रवर्तको मुख्यः शैलूषः । गौर्या' पार्वत्या. प्राणप्रियः प्राणेभ्योऽपि प्रियतम । न अस्माकम् तानि तानि लोकदुर्लभानि मनोऽभिलषितानि, नितरां अतितरांप्रथयतु उपभोगाय विशदयतु ।
५-श्रीपीयूषादिवन्तुप्रकराणां, समुद्रमन्थनादधिगतानां उच्चावचानां लक्ष्म्यादिनानावस्तुनिवहानां यद् विभजनं परस्परं विभज्य सविभागपूर्वकमादानम् । तत्र विभजनावसरे उद्भूतः समुत्पन्नो यो वाद. मिथःप्रसक्तः संघर्परूपो वाक्कलह , तस्मिन् एकविज्ञा मुख्यतया विदग्धाः । केवल विभागकरणकमात्रचतुरा इति तात्पर्यम् । देवंमन्याः अहंपूर्षिकया दिविपत्सु आत्मन. । प्राधान्यं पुरस्कुर्वाणा । महेच्छा. महानुभावाः । दिव स्वर्लोकस्य, भारभूताः धोभारैकवाहिन. । अहह इति खेदे अव्ययम् । कति न सन्ति, नामधारिण' के