________________
६७
चण्डीशाष्टकम्
देवस्त्वेकस्त्रिलोकाद्मरविषकवलीकार केलीविदग्धो वर्धयर्तानुकम्पाधृततनुघटनासेचनो रेरिहाणः ॥ ५ ॥
पुष्पाने वाढं विबुधविटपिषूत्कर्षपुष्पप्रकर्षं
तन्त्रसुप्तोऽपि सद्यो मयपुरदहनं यो व्यधाद्विश्वभूत्यै । सोऽव्यान्मूर्तोऽप्यमूर्ती यतिरपि सतताहीनभोगोपभोगी
कान्ताश्लिष्टोऽप्यकान्तः शशधर मुकुटालंकृतिर्देवदेवः || ६ ||
वा नासते । एक: अनन्यसदृशः, त्रिलोकस्य अमर भक्षणप्रसक्त यत् विषं गरलं, तस्य कवलीकारः निगरणमेव केलिः क्रीडाव्यापारः, तत्र विदग्धः निपुणो रेरिहारण: देवदेव शिवः । आर्तानां त्रिविधदुःखतप्तानां उपरि या अनुकम्पा वात्सल्यरूपो दयाभाव; तया धृता धारिता या तनु शरीरं तेन आसेचन. अतिमनोहरः । वर्वर्ति अतिशयेन चकास्ति ।
६- पुष्पाणां कुसुमसङ्घातानां नेहा सुरभिसमय । स इव बाढं अत्यन्तं यथा स्यात्तथेति क्रियाविशेषणम् । विबुधा. सुमनस एव विटपिन. पादपाः तेषां उत्कर्षरूप. सौभाग्यैक फलः यः पुष्पात्मक प्रकर्षः कुसुमसमृद्धिरूपो उदय तम् । सुप्त निद्रितः सन्नपि तन्वन् वितरन् । यो हि निद्राति स कथं अन्यस्मै उत्कर्ष वितरितु प्रभवेदिति विरोधाभासो नामात्रालङ्कारः । विरोधनिरासस्तु सुष्ठु ताजटा यस्येत्यर्थाश्रयणात् कर्तव्यः । यः विश्वभूत्यै जगतां वैभवस्य संरक्षणाय, लोकानामभ्युदयाय च । सद्य सपद्येव, मयपुरस्य मयेतिनाम्ना प्रसिद्ध ेन शिल्पिना निर्मितस्य, स्थापत्यकलारमणीयस्य नगरस्य । दहनं भस्मीभाव व्यधात् व्यधत्त । स महामहिममूर्ति, मूर्तः सन्नपि अमूर्त, लोकोपकृत्यै दयादाक्षिण्यादिभिरनुरूपै. सातिशयै गुणै. नानाशरीरमाश्रित. । अमूर्त अदृश्यतनुः । यो हि मूर्तः न स अमूर्तो भवितुमर्हति इति विरोधाभासः । परिहारस्तु सगुण-निगुणत्वरूपाभ्या विभ्राजमान इत्यर्थाश्रयणात् । यतिः भिक्षुः सन्नपि सततं अविरतं अहीनः अत्युत्कृष्ट यः उपभोग. नानाविधो विषयास्वादः तं उपभुङ्क्ते तच्छील' अहीनभोगोपभोगी । अत्रापि पूर्ववत् विरोधाभासो द्रष्टव्यः । तन्निरासस्तु हीनां सर्पाणां यः इनः स्वामी वासुकिः तस्य यः भोगः फरणा तामुपभुङ्क्ते इत्येवंरूपार्थकरणात् । कान्तया गौर्या लिष्टः लिङ्गित. सन्नपि,