SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ नवदुर्गा - स्तवः नवदुर्गा - स्तवः । कार्येण यानेकविधां श्रयन्ती पूर्वकारुण्यरसार्द्रचित्ता निवारयन्ती स्मरतां विपत्तीः । सा शैलपुत्री भवतु प्रसन्ना ॥ १ ॥ स्वर्गोऽपवर्गो नरकोऽपि यत्र विभाव्यते टक्कलया विविक्तम् | या चाद्वितीयाऽपि शिवद्वितीया सा ब्रह्मचारिण्यवताद् भयेभ्यः || २ || ८३ नवदुर्गा - स्तवः । १ - या कार्येण कार्यगौरवेण अनेकविधां श्रयन्ती नानास्वरूपं आदधती, स्मरतां चेतसि भावयतां, विपत्तीः श्रापदः, निवारयन्ती दूरीकुर्वन्ती, विजयते इत्यध्याहारः । सा अपूर्वकारुण्यरसाद्र चित्ता अपूर्व: य. कारुण्यरसः करुणाप्रवाहः तेन आर्द्र' द्रवीभूतं चित्त ं यस्या सा । शैलपुत्री हिमवत कन्या पार्वती, प्रसन्ना भवतु प्रसीदतु । उपजातिवृत्तम् । २-यत्र यस्यां स्वर्ग. दिव्यो लोकः, अपवर्गो मुक्तिमार्गः, नरकः निरयश्च दृक्कलया, दृश्यते श्रनया इति दृक् तस्याः कला सामर्थ्यं तया । ज्ञानदृष्ट्य त्यर्थ. । अतएवागमे 'नियतानेव निर्भिद्य कांश्चिदर्थान् निजेच्छया । उन्मज्जयति यत् स्वस्माद् दृक्शक्तिः सा निगद्यते ।' इत्युपबृ ंहणं पुरस्क्रियते । विविक्तं पूतं विभाव्यते अनुभूयते । या, द्वितीया १-सर्वविधैश्वर्यखनिरपि भगवती हिमवतस्तपश्चर्यया प्रसन्ना करुणापरवशा प्रतितुच्छतरमपि पुत्रीभावमापेदे इति कियदभिनन्दनीयमस्या वात्सल्यमित्यादिकथारसः कूर्मपुराणे स्फीतो द्रष्टव्यः ।
SR No.010620
Book TitleDurgapushpanjali
Original Sutra AuthorN/A
AuthorJinvijay, Gangadhar Dvivedi
PublisherRajasthan Puratattvanveshan Mandir
Publication Year1957
Total Pages201
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy