________________
८४
दुर्गा-पुष्पाञ्जलिः पादौ धरित्री कटिरन्तरिक्ष
यस्याः शिरो द्यौरुदितागमेषु । अन्यद्यथायोगमयोगदूरा
सा चन्द्रघण्टा घटयत्वभीष्टम् ॥३॥ स्वराड्-विराट्-संसृतिराडखण्ड
ब्रह्माण्डभाण्डाकलनकवीरा ।
अपि, न विद्यते द्वितीयो यस्या' सा तथाभूता-अपि शिवद्वितीया शिवसहचरी। ब्रह्म सच्चिदानन्दरूप,तच्चारयितुप्रथयितुशीलमस्या सा ब्रह्मचारिणी ब्रह्मरूपप्रदा । भयेभ्य' संसारोत्त्थाभ्यो भीतिभ्य. 'भीत्रार्थानां भयहेतु.' (पासू० १.४.२५) इत्यपादाने पञ्चमी । अवतात् रक्षतात् । 'अव रक्षणे' ।
३-यस्याः पादौ चरणौ आगमेषु वेदादिपु तदुपबृहणभूतेषु पुराणादिषु च धरित्रीरूपेण विश्वंभरात्वेन, कटिः कटिप्रदेशः अन्तरिक्षरूपेण नभोमण्डलत्वेन शिर. शिरोभागश्च द्यौ. सुरलोकतया उदिता कथिता । अन्यत् तदतिरिक्तो देहभाग. यथायोगं यथायथम् प्रथते । यदुक्त
'यस्याग्निरास्यं द्यौ मूर्धा खं नाभिश्चरणौ क्षितिः । सूर्यश्चक्षुर्दिशः श्रोत्रे तस्मै लोकात्मने नमः ॥ इति ।
सा अयोगदूरा, योगः शिवेन सह साहचर्यरूपः समागमः तादात्म्यसम्बन्धो वा, स न भवति इत्ययोग , तेन दूरा वर्जिता । शिवस्य सहधर्मिणीत्वमनुप्रविप्टेत्यर्थः । चन्द्रः घण्टायां यस्याः सा । चन्द्रवन्निर्मलां घण्टां बिभ्रतीम् । तथा च रहस्यागम.-'आह्लादकारिणी देवी चन्द्रघण्टेति कीय॑ते ।' इति । अभीप्टं मनोऽभिलषितं घटयतु संपादयतु ।
४-स्वेनैव राजते इति स्वराट् । स च ब्रह्माण्डान्तरवर्तिसमष्टिलिङ्गशरीराभिमानी ईश्वरपदाभिलाय. । विशेपेण राजते, इति विराट् । ब्रह्माण्डात्मकस्थूलदेहाभिमानित्वप्रथां विभ्राण.। संसृत्या राजते इति संसृतिराट् । तदुभयकारणाव्याकृताभिमानी । एभिस्त्रिभि' समुदितं यदखण्डं ब्रह्माण्डम् ब्रह्मण उत्पादको अण्डाकारो