________________
८२
दुर्गा-पुष्पाञ्जलिः सापद्यत इति । एवमिह नित्योदितमहामन्त्ररूपा पूर्णाहंविमर्शमयी परा वाक्शक्तिः
आदितान्तरूप-अशेषशक्तिचक्रगर्भिणी तत्तद्ग्राह्य-ग्राहकभूमिकां प्रकाशयति । अतभावभरितस्य परास्वरूपपरामर्श एवं पार्यन्तिको प्रतिष्ठेत्युच्यते । उक्तञ्चापि
'स्वदेहे जगतो वापि स्थूलसूक्ष्मतराणि च ।
तत्त्वानि यानि निलयं ध्यात्वान्ते व्यज्यते परा ।।' अयंभावः-निजदेहस्य आहोश्विन सर्वस्यापि जगत संबन्धीनि सूक्ष्माणि सूक्ष्मतराणि च प्रकृतिमहदकारादीनि तथा पृथिव्यादीनि तद्विकृतिभूतानि स्थूलशरीरघटकानि यानि सन्ति तेपां स्व-स्वकारणेषु लयं ध्यायतः पर्यन्ते पराभट्टारिकाविर्भाव इति । तत इदमपि न विस्मर्तव्यम्- स्वातन्त्र्यशक्तिरेव परा, सैव क्रम स्रष्टुमिच्छन्ती अपरा, सैव च क्रमरूपा सती परापरेति व्यपदेशं लभते । स्पष्टश्चायमर्थस्तन्त्रालोकादिषु महागुरूणां सन्दर्भेषु । किञ्च, एवमाद्यभिप्रायेणैव विज्ञानभैरवादिपु
'अविन्दुमविसर्ग च अकारं जपतो महान् ।
उदेति देवि । सहसा ज्ञानौघ. परमेश्वरः ।।' इत्यादिना अनुत्तरक्रम उन्मीलित. । विन्दुः अविभागस्य संवेदनम्अद्वैतज्ञानम् । विसर्गो भेदप्रथासर्जनात्मकः ककाराद्यक्षरसृष्टिरूपः । तद्रहितं प्रथमाक्षरमकारं अनुत्तरस्वरूप विमृशतः सर्वविधाया' ज्ञानभूमेः स्रष्टा परमेश्वरः प्रादुर्भवति । सोऽयमनुत्तरक्रमः
'न चैक तदन्यत् द्वितीयं कुत. स्यात् न वा केवलत्व न चाकेवलत्वम् । न शून्यं न चाशून्यमद्वतकत्वात्
कथं सर्ववेदान्तसिद्ध ब्रवीमि ॥' इति शांकराद्वैत-सिद्धान्तसिद्धोऽपीति विमर्शकै. समनोनियोगं विभावनीयम् ।
एवंरूपां परां कन्दलिका प्रकाशाकुरवैजयन्ती ध्यायन् यावन्मनोलयं तदेकसामरस्यमनुभवन् । यदुक्तं विज्ञानभैरवे
'भुवनाध्वादिरूपेण चिन्तयेत् क्रमशोऽखिलान् ।
स्थूल-सूक्ष्म-परस्थित्या यावदन्ते मनोलयः ।। इति । प्रसादं पूर्णख्यातिरूपं आनन्दोल्लासं अधिगच्छति-स्वायत्तीकुरुत इतिशिवम्।
॥ इति दुर्गा प्रसादाष्टकम् ।।