________________
दुर्गा प्रसादाप्टकम्
परां कन्दलिकां ध्यायन् प्रसादमधिगच्छति ॥ ८ ॥ ॥ इति दुर्गा प्रसादाष्टकम् ॥ १५॥
८१
अतएव विज्ञानभट्टारके -
'भूयो भूयः परे भावे भावना भाव्यते हि या । जपः स्तोत्रं स्वयं नादो मन्त्रात्मा जप्य ईदृशः ॥' इत्यादिकं पुरस्क्रियते । सेयं अन्तर्यागरूपायामुपास्तौ सकलः, सकलनिष्कलो, निष्कलश्चेति त्रिधा परिणमति । उक्तञ्च योगिनीहृदये
आज्ञान्तं सकलं प्रोक्तम् ततः सकलनिष्कलम् । उन्मन्यन्ते परे स्थाने निष्कलञ्च त्रिधा स्थितम् ॥' इति ।
उपासकस्य चित्तशुद्धितारतम्यमेव आसां भूमिकानां भेदे नियामकम् । तदेवं पूर्व- पूर्व भूमिकामुपारूढस्यैव उत्तरोत्तरभूमिकायामधिकार इत्यर्थतः पर्यवस्यति । मीमांसकसमता लिडादिवाच्या शाब्दीभावना प्रवृत्तिरूपा आर्थीभावना च प्रकृतानुपयुक्ततया नात्र लक्ष्यभूतेति द्रष्टव्यम् | तत्त्वतस्तु विचार्यमाणे सापि विमर्शशक्तिक्रोडान्नातिरिच्यत इत्यन्यदेतत् । पदार्थोदयसंरम्भात्मनः स्वात्मसंवित्स्वरूपस्यैव मुख्यया वृत्त्या मन्त्रशब्दार्थत्वमिति देशिकसिद्धान्त । तत्स्वरूपपरामर्श एव जप इत्युच्यते । 'कथा जप' इति शिवशासनात् । परमार्थतस्तु प्रकाशकरूपस्यात्मनो विमर्शशक्तिरेवानुप्राणनमिति सिद्धान्तात् सा एव मन्त्रजपादिशब्दानाम भिधेयतया प्रथत इति कथनं नासमञ्जसम् । प्रकारभेदस्तु केवलमवशिष्यते । स च रुचिवैचित्र्यादि नानाकारणजातेन अपह्नोतुमशक्य एवेति विपश्चितो विभावयन्तु । अवर्णा वाच्यवाचकभेदव्यवहारमपृथक्तया परामृशन्तीम् । तत उत्तरकक्षामारूढा वर्णरूपतामवभासयन्तीम् | अध्वानो हि षट् इत्यागम | यदुक्तम्
'वर्ण कला पदं तत्त्वं मन्त्रो भुवनमेव च । इत्यध्वषट्कं देवेशि । भाति त्वयि चिदात्मनि ।' इति ।
तेषु भुवन-तत्त्व-कलान्तानामेको विभाग, मन्त्र - पद - वर्णान्तानाञ्च द्वितीयः । प्रथमो वाच्यवर्ग द्वितीयश्च वाचकवर्गमवभासयति । तदित्थं मन्त्रात्मकेन भावनाकरणेन श्रवर्णरूपां पूर्वामवस्थां उज्झित्य वरूपामुत्तरामवस्थां प्रविशन्तीमित्याशय । इदमिह प्रतिपत्तव्यम् - सर्ववर्णानां कारणभूतो नाद एक हि प्रथमं परारूप: मूलाधारचक्रादुत्थितो मणिपूरानाहतयोरागत्य प्रारणमनोभ्यां संयुज्यमान पश्यन्ती मध्यमात्मना परिणतः कण्ठे वैखरीरूपवर्णात्मकता