________________
दुर्गा-पुष्पाञ्जलिः
अद्वयापि द्वयाकारा हृदयाम्भोजगावतात् ॥७॥ मन्त्रभावनया दीप्तामवणी वर्णरूपिणीम् ।
प्रतिकूला इत्यर्थाश्रयणात् । सर्वावस्थासु पत्युरनुकूलतया समरसोज्वला इति तात्पर्यम् । दक्षिणेष्वपि दक्षिणभागमवलम्बमानेष्वपि दक्षिणा सरला उदारस्वभावा च । अद्वया शिवसामरस्यमश्नुवाना अपि द्वयाकारा द्वैतप्रथामवभासयन्ती । एकस्या एव विमर्शशक्तेरयमेतावान् विजृम्भणोल्लास. यद् द्वैताद्वैतमर्यादया तत्तदनन्तवैचित्र्यभूमिकां प्रतिपद्यमानापि स्वस्वातन्त्र्यभावमजहती सर्वमपि शब्दार्थप्रपञ्चभूतं भुवनाभोगं स्वात्मनि क्रोडीकरोति । उक्तञ्च चिद्गगनचन्द्रिकायाम्
'याहमित्युदितवाक् पराभिधा यः प्रकाश उदिताविग्रहः । द्वौ मिथः समुदिताविहोन्मुखौ तौ षडध्वपितरौ श्रये शिवौ ।।' इति ।
एवम्
'चित्स्वभाव्यादसौ देवः स्वात्मना विमृशन विभुः ।
अनाश्रितादिभूम्यन्ता भूमिकाः प्रतिपद्यते ॥ इति च । हृदयाम्भोजगा, हृदयमेव सुकुमारतया अम्भोजं पुण्डरीकं तस्मिन्नधिष्ठिता। हृदयं हि नाम प्रतिष्ठास्थानमुच्यत इत्यभिनवगुप्तगुरवः । तत एव चोपनिपदि
हृदयं तद् विजानीयात विश्वस्यायतनं महत् ।' इत्यादिकं पठ्यते ।
वाम-दक्षिणशब्दाभ्यां इह लोकप्रसिद्धया उभयविधाचारप्रधानया उपासनाप्रणाल्या यथारुचि सेव्यमाना इत्येवंरूपो व्यड्यार्थोऽपि संभवदुक्तिको यथाथयमनुसन्धेय. । अवतात् रक्षतात् । इह अवतेरन्येऽयर्थाः संभवन्तो नोपेक्षणीया' ।
८-मन्त्रस्य त्रैपुरादे. भावनया पुनपुनश्चिन्तनरूपया। दीप्ताम् प्रकाशकसामरस्यमुपागताम् । मननत्राणधर्माणो हि मन्त्रा. इत्याम्नाय. । शिवसूत्रेष्वपि'चित्त मन्त्र , 'महादानुसन्धानान्मन्त्रवीर्यानुभवः । इति । तथा च मन्त्रमन्त्रिणोरै कात्म्यानुसन्धानफ्लात्मिका क्रियैव इह मुख्यो भावना पदस्यार्थ. ।