________________
दुर्गा प्रसादाष्टकम् तामालम्बे शिवालम्बां पराप्रासादरूपिकाम् ॥६॥ अवामा वामभागेषु दक्षिणेष्वपि दक्षिणा ।
सोपानरहस्यलाभः । स च विरलेन केनापि पुण्यवता भक्तिभाजा लभ्यत इति शास्त्रसमयः । अतएव यथावसर महाभारतादिप्वपि
'ऋतस्य दातारमनुत्तरस्य निधिं निधीनां चतुरन्वयानाम् ।
ये नाद्रियन्ते गुरुमर्चनीयं पापांल्लोकांस्ते व्रजन्त्यप्रतिष्ठान्।।' इत्यादिना देशिकनाथस्यैव एतदुपायतयान्वाख्यानमिति संक्षेपः। मेधा-साम्राज्यदीक्षादि आगमानुशिष्टानां तत्तहीक्षाविशेषाणां या वीक्षा अनुग्रहरसामु तं निभालनं सैव आरोह' कैवल्यधाम्नः उपर्युपरि उन्मीलनम्, तत्स्वरूपिकां तदात्मना स्फुरन्तीम् । अयमिह मेधादीक्षाक्रम -
'कालिका च तथा तारा छिन्नमस्ता च षोडशी ।
वगलेति च मेधाख्या दीक्षा सर्वोत्तमा स्मृता ।।' इति । इतोऽप्युपारोहक्रमेण सामाज्यमेवा -
'वाला तारा च वगला छिन्ना प्रत्यंगिरा तथा ।
साम्राज्यमेधा कथिता साधकाभीष्टदायिनी ।।' इति । पराप्रसादो रूपिका आकारो यस्याः सा ताम् । पराप्रासादो नाम शिवशक्तिसामरस्यात्मा बीजमन्त्रविशेषः । स च अर्धसकारहकाराभ्यामुपेत. चतुर्दशस्वरेण च सयुतोऽर्धचन्द्रघटित' 'स्हौ ' इत्येवंरूपः । अयमस्योद्धार'
'चन्द्रो वियत्समारूढोऽनुग्रहेन्दुद्वयात्मकः ।
बिन्दुमानेकवर्णात्मा पराप्रासाद संज्ञकः ।।' बिन्दु.-सकार , वियत्-हकारः, अनुग्रहः-औकारः । शेषं स्पष्टम् । शिव आलम्बो यस्या अथवा शिवस्य आलम्बा इत्युभयथा विगृह्य व्याख्येयम् । तथा च शिवसमरसाकारां चिदानन्दघनामित्याशय. 1 आलम्बे सर्वत शरणमाश्रये।
७-वामभागेषु वामाङ्गस्थिति सौभगं जुषमाणापि अवामा वामभावबहिभूता। या हि वामा न सा अवामा भवितुमर्हति इति विरोधाभासः । परिहारस्तु वामा