________________
५ - तत्त्वतत्त्वम् गा- २३५
३१५
५ । द्वित्रिचतुरिन्द्रियेष्वौदारिकद्विककार्मणान्त्यभाषाख्याश्चत्वारः ४ । पञ्चेन्द्रियेषु सर्वे १५ । पृथिव्यप्तेजोवनस्पतिकायेष्वौदारिकद्विककार्मणाख्यास्त्रयः ३ । वायुकाये ते सवैक्रियद्विकाः ५ । का सर्वे १५ । मनोवाग्योगयोः कार्मणौदारिकमिश्रोनाः १३ । काययोगे सर्वे १५ । स्त्रीवेद आहारकद्विकोनाः १३ । पुंनपुंसकवेदयोः सर्वे १५ । कषायेषु सर्वे १५ । मतिश्रुतावधिषु सर्वे १५। मनःपर्यायज्ञाने कार्मणौदारिकमिश्रोनाः १३ । केवलज्ञान आद्याऽन्त्यमनोवाग्योगौदारिकद्विककार्मणाख्याः ७ । अज्ञानकत्रिक आहारकद्विकोनाः १३ । देशसंयमे कार्मर्णोदारिकमिश्राऽऽहारकद्विकोनाः ११ । सामायिकच्छेदोपस्थापनीययोः कार्मणौदारिकमिश्रोनाः १३ । परिहारविशुद्धिकसूक्ष्मसम्पराययोरष्टौ मनोवाग्योगा औदारिकयोगाश्चेति ९ । यथाख्याते तैजसकार्मणौदारिकमिश्राः ११ I असंयम आहारकद्विकोनाः १३ । चक्षुर्दर्शने कार्मणौदारिकमिश्रोनाः १३ । अचक्षुरवधिदर्शनयोः सर्वे १५ । केवलदर्शन आद्यान्त्यमनोवाग्योगौदारिकद्विककार्मणाख्याः ७ । लेश्याषट्के सर्वे १५ । भव्ये सर्वे १५ । अभव्य आहारकद्विकोनाः १३ । क्षायिकक्षायोपशमिकयो: सर्वे १५ । औपशमिके, सास्वादने, मिथ्यात्वे चाहारकद्विकोनाः १३ । मिश्रे मनोवाग्योगाष्टकम्, औदारिकवैक्रियौ च १० । संज्ञिनि सर्वे १५ । असंज्ञिन्यौदारिकद्विकवैक्रियद्विककार्मणाऽन्त्यभाषाख्याः ६ 1 आहारकेऽकार्मणाः १४
[सर्वे १५] | अनाहारके कार्मणयोगः १ ।
मनुष्यगतौ द्वादशोपयोगाः १२ । देवनारकतिर्यग्गतिषु मनःपर्यायकेवलद्विकवर्जाः ९ । एकद्वित्रीन्द्रियेष्वचक्षुर्दर्शनमतिश्रुताऽज्ञानरूपाः ३ । चतुरिन्द्रियेषु ते सचक्षुर्दर्शनाः ४ । पञ्चेन्द्रियेषु सर्वे १२ । स्थावरकाये मतिश्रुताऽज्ञानाऽचक्षुर्दर्शनाख्याः ३ । त्रसकाये, योगेषु, वेदेषु च सर्वे १२ । कषायेषु केवलिद्विकोना: १० । ज्ञानचतुष्के ज्ञानचतुष्कदर्शनत्रयरूपाः ७ । केवलज्ञाने द्वौ केवलोपयोगौ २ । अज्ञानत्रये दर्शनद्विकाऽज्ञानत्रयरूपाः ५ । देशसंयमे ज्ञानत्रयदर्शनत्रयरूपाः ६ । सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिकसूक्ष्मसम्परायेषु ज्ञानचतुष्कदर्शनत्रयरूपाः ७ । यथाख्याते सकेवलद्वयाः ९ । असंयमे मनः पर्यायकेवलद्वयवर्जाः ९ । अचक्षुश्चक्षुर्दर्शनयोः केवलद्विकोनाः १० । अवधिदर्शने ज्ञानचतुष्कदर्शनत्रयरूपाः ७ । केवलदर्शने केवलोपयोगौ द्वौ २ । लेश्यापञ्चके केवलिद्विकोनाः ९० । शुक्लायां द्वादश १२ । भव्ये द्वादश १२ । अभव्येऽज्ञानत्रयं दर्शनद्वयं च ५ । क्षायिकेऽज्ञानवर्जाः ९ । क्षायोपशमिकौपशमिकयोर्ज्ञानचतुष्कं