________________
५-तत्त्वतत्त्वम् गा-२३५
३१३
त्वान्मत्यज्ञानादौ च ३, एष एवाऽन्यत्राऽपि सविपक्षपदे हेतुः । संयमे देशसंयमसामा कादा वसंयमे च ७, दर्शने च चक्षुर्दर्शनादौ ४, लेश्यासु कृष्णाद्यासु ६, 'भव'त्ति भव्ये, अभव्ये च २, 'सम्मि'त्ति सम्यक्त्वे क्षायिकौपशमिकक्षायोपशमिकमिश्रसास्वादनरूपे, मिथ्यात्वे च ६ ।
संज्ञिन्यसंज्ञिनि च २, आहारकेऽनाहारके च २, एतानि मूलतश्चतुर्दश उत्तरभेदापेक्षया तु द्विषष्टिरिति ।
अथ किमेतेष्वित्याहुः ‘एएसु मग्गणट्ठाणेसु जीवगुणजोगुवओगामग्गिज्जति' त्ति वाक्यं विचित्रत्वात् तन्त्ररचनायाः । अत एव नानाच्छन्दोविशेषैर्गुम्फोऽत्रेति ।
मार्यन्ते विचार्यन्ते जीवादिपदान्यास्विति मार्गणास्ताश्च तानि स्थानानि च मार्गणास्थानानि । एतेषु मार्गणास्थानेषु जीवगुणयोगोपयोगाः । जीवचतुर्दशकगुणस्थानकयोगोपयोगा मार्यन्ते । यथा कस्यां गतौ कियन्ति जीवस्थानानि - अपर्याप्तसूक्ष्मैकेन्द्रियादीनि, गुणस्थानानि वा मिथ्यादृष्ट्यादीनीत्यादि ।
तद्यथा - सुरनारकगत्योः पर्याप्ताऽपर्याप्तरूपं संज्ञिद्वयम् २ । मनुष्यगतौ संज्ञिद्वयमपर्याप्ताऽसंज्ञी च ३ । तिर्यग्गतौ सर्वाणि १४ । एकेन्द्रियेषु पर्याप्तापर्याप्तसूक्ष्मबादरैकेन्द्रियरूपाणि चत्वारि ४ । द्वित्रिचतुरिन्द्रियेषु पर्याप्ताऽ-पर्याप्तस्वरूपे द्वे २ । पञ्चेन्द्रियेषु पर्याप्ताऽपर्याप्तासंज्ञिसंज्ञिनः ४ । स्थावरकाये पञ्चविधे पर्याप्ताऽपर्याप्तसूक्ष्मबादरैकेन्द्रियरूपाणि चत्वारि ४ । त्रसकाये शेषाणि दश १० । मनोयोगे पर्याप्तः संज्ञी - १ । वाग्योगे पर्याप्ता द्वित्रिचतुरिन्द्रियाऽसंज्ञिसंज्ञिनः ५ । काययोगे सर्वाणि १४ । पुंस्त्रीवेदयोः संज्ञिद्वयम् २। नपुंसकवेदे सर्वाणि १४ । कषायेषु सर्वाणि १४ । मतिश्रुताऽवधिविभङ्गेषु संज्ञिद्वयम् २ । मतिश्रुताऽज्ञानयोः सर्वाणि १४ । मनःपर्यायकेवलज्ञानयोः पर्याप्तः संज्ञी १ । देशसंयतसामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातेषु पर्याप्तः संज्ञी १ । असंयमे सर्वाणि १४ । चक्षुर्दर्शने पर्याप्तचतुरिन्द्रियासंज्ञिसंज्ञिरूपाणि त्रीणि ३ । अचक्षुदर्शने सर्वाणि १४ । अवधिदर्शने संज्ञिद्वयम् २ । केवलदर्शने पर्याप्तः संज्ञी १। आद्यलेश्यात्रये सर्वाणि १४ । तेजोलेश्यायां संज्ञिद्वयमपर्याप्तबादरैकेन्द्रियश्च ३, तेजोलेश्यावतां भुवनपत्यादीनां बादरभूदकप्रत्येकवनस्पतिषूत्पादाद्, [पद्मशुक्लयोस्तु संज्ञिद्विकम्] भव्येऽभव्ये च सर्वाणि १४ । क्षायिकक्षायोपशमिकयोः संज्ञिद्वयम् २, औपशमिकसम्यक्त्वे तु पर्याप्तः संश्येकः १, अपर्याप्तस्यौपशमिकसम्यक्त्वाऽनुपपत्तेः, तस्य तत्प्राप्तियोग्यशुद्धयभावात् ।