Book Title: Darshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Author(s): Vijaykirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 399
________________ ३५४ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् सामायिकादय इतिरुल्लेखे, एतत् त्रैकाल्यादिज्ञानश्रद्धानानुष्ठानविषयतया मोक्षमूलम् । किं स्वमतिकल्पनया ? नेत्याह-त्रिभुवनमहितैः प्रोक्तमर्हद्भिरीशैस्ततश्च प्रत्येति निश्चयरूपतया जानाति, ज्ञातमपि कश्चिन्न तथेति प्रतिपद्यत इत्याह, श्रद्दधाति रोचयति, रोचयन्नपि कश्चिन्नानुतिष्ठतीत्याह, स्पृशति चासेवते, मतिमान् यः, इह च प्रत्ययादीनां त्रैकाल्यादिषु यथासम्भवं योजना कार्या, स वै स्फुटं शुद्धदृष्टिः सर्वोपधा शुद्धदर्शन इति वृत्तार्थः ।।२५२ ।। चक्रे० : कैः पुनर्लिङ्गैः सम्यक्त्वमस्यास्तीति श्रद्धेयमित्याहुः - देव० : कैः पुनर्लिङ्गैः सम्यक्त्वमस्तीति श्रद्धेयमित्याह - उवसम संवेगो वि य निब्बेओ विय तहेव अणुकंपा। अत्थिक्कं चेव तहा सम्मत्ते लक्खणा पंच।।२५३।। चक्रे० : १-उपशमस्तीव्रकषायानुदयः, २-संवेगो मोक्षाभिलाषः, ३-निर्वेदो भववैराग्यम्, ४अनुकम्पा दुःखितेषु दया, ५-आस्तिक्यं तत्त्वान्तरश्रवणेऽपि जिनधर्म एवास्तिकभावः, एतानि पञ्च सम्यक्त्वे सम्यक्त्वसत्तायां लक्षणानि।।२५३।। देव० : १-उपशमोऽनन्तानुबन्धिनामनुदयः, विभक्तिलोपः प्राकृतत्वात्, अन्ये तु क्रोधकण्डूविषयतृष्णोपशान्तिरुपशम इत्याहुः । नन्वेवं कृष्णश्रेणिकादीनां सापराधे निरपराधे च परे क्रोधवतां विषयतृष्णातुराणां च कथमुपशमः ? तदभावे च सम्यक्त्वं न गम्येत, नैवं लिङ्गिनि सति लिङ्गैरवश्यं भाव्यमिति नायं नियमः । दृश्यते हि धूमरहितोऽप्ययस्कारगृहेषु वह्निः । अयं तु नियमः सुपरीक्षिते लिङ्गे लिङ्गी भवत्येव, यदाह - लिङ्गे लिङ्गी भवत्येव लिङ्गीन्येवेतरत्पुनः । नियमस्य विपर्यासे सम्बन्धो लिङ्गलिङ्गिनोः।। [ ] सञ्ज्वलनोदयाद्वा कृष्णादीनां क्रोधकण्डू विषयतृष्णे, सज्वलना अपि केचित्तीव्रतयाऽनन्तानुबन्धिसदृशविपाकवन्त इति सर्वमनवद्यम्, २-संवेगो मोक्षाभिलाषोऽपि चेति समुच्चये, एवं सर्वाव्ययानि । ३-निर्वेदो भववैराग्यम्, अन्ये तु संवेगो भवविरागः, निवेदो मोक्षाभिलाष इति विपर्ययमाहुः । ४-अनुकम्पा दुःखितेष्वपक्षपातेन दुःखप्रहाणेच्छा । ५-अस्तीति मतिरस्येत्यास्तिकस्तस्य भावः कर्म वाऽऽस्तिक्यम्, तत्त्वान्तरश्रवणेऽपि जिनोक्ततत्त्वविषये निराकाङ्क्षा

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512