________________
३५४
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
सामायिकादय इतिरुल्लेखे, एतत् त्रैकाल्यादिज्ञानश्रद्धानानुष्ठानविषयतया मोक्षमूलम् । किं स्वमतिकल्पनया ? नेत्याह-त्रिभुवनमहितैः प्रोक्तमर्हद्भिरीशैस्ततश्च प्रत्येति निश्चयरूपतया जानाति, ज्ञातमपि कश्चिन्न तथेति प्रतिपद्यत इत्याह, श्रद्दधाति रोचयति, रोचयन्नपि कश्चिन्नानुतिष्ठतीत्याह, स्पृशति चासेवते, मतिमान् यः, इह च प्रत्ययादीनां त्रैकाल्यादिषु यथासम्भवं योजना कार्या, स वै स्फुटं शुद्धदृष्टिः सर्वोपधा शुद्धदर्शन इति वृत्तार्थः ।।२५२ ।।
चक्रे० : कैः पुनर्लिङ्गैः सम्यक्त्वमस्यास्तीति श्रद्धेयमित्याहुः - देव० : कैः पुनर्लिङ्गैः सम्यक्त्वमस्तीति श्रद्धेयमित्याह -
उवसम संवेगो वि य निब्बेओ विय तहेव अणुकंपा।
अत्थिक्कं चेव तहा सम्मत्ते लक्खणा पंच।।२५३।। चक्रे० : १-उपशमस्तीव्रकषायानुदयः, २-संवेगो मोक्षाभिलाषः, ३-निर्वेदो भववैराग्यम्, ४अनुकम्पा दुःखितेषु दया, ५-आस्तिक्यं तत्त्वान्तरश्रवणेऽपि जिनधर्म एवास्तिकभावः, एतानि पञ्च सम्यक्त्वे सम्यक्त्वसत्तायां लक्षणानि।।२५३।।
देव० : १-उपशमोऽनन्तानुबन्धिनामनुदयः, विभक्तिलोपः प्राकृतत्वात्, अन्ये तु क्रोधकण्डूविषयतृष्णोपशान्तिरुपशम इत्याहुः । नन्वेवं कृष्णश्रेणिकादीनां सापराधे निरपराधे च परे क्रोधवतां विषयतृष्णातुराणां च कथमुपशमः ? तदभावे च सम्यक्त्वं न गम्येत, नैवं लिङ्गिनि सति लिङ्गैरवश्यं भाव्यमिति नायं नियमः । दृश्यते हि धूमरहितोऽप्ययस्कारगृहेषु वह्निः । अयं तु नियमः सुपरीक्षिते लिङ्गे लिङ्गी भवत्येव, यदाह -
लिङ्गे लिङ्गी भवत्येव लिङ्गीन्येवेतरत्पुनः ।
नियमस्य विपर्यासे सम्बन्धो लिङ्गलिङ्गिनोः।। [ ] सञ्ज्वलनोदयाद्वा कृष्णादीनां क्रोधकण्डू विषयतृष्णे, सज्वलना अपि केचित्तीव्रतयाऽनन्तानुबन्धिसदृशविपाकवन्त इति सर्वमनवद्यम्, २-संवेगो मोक्षाभिलाषोऽपि चेति समुच्चये, एवं सर्वाव्ययानि । ३-निर्वेदो भववैराग्यम्, अन्ये तु संवेगो भवविरागः, निवेदो मोक्षाभिलाष इति विपर्ययमाहुः । ४-अनुकम्पा दुःखितेष्वपक्षपातेन दुःखप्रहाणेच्छा । ५-अस्तीति मतिरस्येत्यास्तिकस्तस्य भावः कर्म वाऽऽस्तिक्यम्, तत्त्वान्तरश्रवणेऽपि जिनोक्ततत्त्वविषये निराकाङ्क्षा