________________
५-तत्त्वतत्त्वम् गा-२५४
३५५
प्रतिपत्तिः । एतानि सम्यक्त्वे लक्षयितव्यानीति शेषः । लक्ष्यते गम्यते परोक्षमपि सम्यक्त्वमेभिरिति लक्षणानि पञ्चेति गाथार्थः । ।२५३ ।।
* प्रवचनसारोद्धारे-९३६ * 'लक्खणपंचविहसंजुत्तं ति विवृण्वन्नाह
उवसम संवेगोऽवि य निव्वेगो तह य होइ अणुकंपा ।
अत्थिक्कं चिय एए संमत्ते लक्खणा पंच ।। 'उवसमे'त्यादि, अपराधविधायिन्यपि कोपपरिवर्जनमुपशमः, स च कस्यचित्कषायपरिणतेः कटुकफलावलोकनाद्भवति कस्यचित्पुनः प्रकृत्यैवेति, तथा नरामरसुखपरिहारेण मुक्तिसुखाभिलाषः संवेगः, सम्यग्दृष्टिर्हि नरेन्द्रसुरेन्द्राणां विषयसुखानि दुःखानुषङ्गाद् दुःखतया मन्यमानो मोक्षसुखमेव सुखत्वेन मन्यतेऽभिलषति चेति, तथा नारकतिर्यगादिसांसारिकदुःखेभ्यो निर्विण्णता निर्वेदः, सम्यग्दर्शनी हि दुःखातिगहने संसारकारागारे गुरुतरकर्मदण्डपाशिकैस्तथा तथा कदर्थ्यमानः प्रतिकर्तुमक्षमो ममत्वरहितश्च दुःखेन निर्विण्णो भवति, अन्ये तु संवेगो भवविरागो निवेदो मोक्षाभिलाष इत्यनयोरर्थव्यत्ययमाहुः, तथा दुःखितेषु प्राणिष्वपक्षपातेन दुःखप्रहाणेच्छा दयाऽनुकम्पा, पक्षपातेन तु करुणा स्वपुत्रादौ व्याघ्रादीनामप्यस्त्येव सा चानुकम्पा द्रव्यतो भावतश्च भवति, द्रव्यतः सत्यां शक्तौ दुःखप्रतिकारेण भावत आर्द्रहृदयत्वेनेति, तथाऽस्तीति मतिरस्येत्यास्तिकस्तस्य भावः कर्म वाऽऽस्तिक्यम्, तत्त्वान्तरश्रवणेऽपि जिनगदिततत्त्वविषये निराकाङ्क्षा प्रतिपत्तिः, एतान्युपशमादीनि पञ्च सम्यक्त्वे सम्यक्त्वविषयाणि लक्षणान्येतैः परस्थं परोक्षमपि सम्यक्त्वं सम्यगुपलक्ष्यत इति ।।९३६ ।।
चक्रे० : सम्यक्त्ववांश्च शुद्धपरिणामः स्यादित्याहुः - देव० : अथानादिविषयकषायसंवलितात्मसु प्राणिषु कथमुपशमादि सम्भवतीत्याह -
इत्थ य परिणामो खलु जीवस्स सुहो उ होइ विनेओ ।
किं मलकलंकमुक्कं कणगं भुवि ज्झामलं होइ।।२५४।। चक्रे० : अत्र च सम्यक्त्वे सति परिणामो भावः खलु निश्चयेन जीवस्य शुभ एव भवति विज्ञेयः । एतदेवार्थान्तरन्यासेन समर्थयन्ति । किं मलकलङ्कमुक्त किट्टकालिमादिरहितम्, कनकं भुवि ध्यामलं भवति ? न भवतीत्यर्थः । ।२५४ ।।
१. विन्नेउ PK