________________
३५६
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
देव० : अत्र च सम्यक्त्वे सति परिणामो भावः, खलु निश्चयेन शुभ एव विशुद्ध एव भवतीति ज्ञातव्यः । तत्प्रतिबन्धकक्लिष्टकर्मापगमात्, शुभभावरूपाश्चाम्युपशमादय उक्तस्यैव समर्थनायाह-किं मलकलङ्कमुक्तं किट्टकालिमादिरहितं कनकं भुवि ध्यामलं भवति ? नैवेत्यर्थ इति गाथार्थः । ।२५४ ।।
* धर्मसंग्रहण्याम्-८०७, श्रावकप्रज्ञप्तौ-५४ *
तथा चाह -
एत्थ य परिणामो खलु जीवस्स सुहो उ होइ विन्नेओ ।
किं मलकलंकमुक्कं कणगं भुवि झामलं होइ ? ।। __ अत्र सम्यक्त्वे सति परिणामोऽध्यवसायः, खलुरवधारणे, शुभ एव, तुरेवकारार्थः, जीवस्य भवति विज्ञेयो न त्वशुभः । अथवा किमत्र चित्रमिति प्रतिवस्तूपमामाह-'किमित्यादि' किं मलकलङ्करहितं कनकं भुवि ध्यामलं भवति ? नैव भवतीति भावार्थः । एवमिहापि मलकलङ्कस्थानीयं प्रभूतं क्लिष्टं कर्म यदा क्षीणं भवति जीवस्य तदा नैव ध्यामलत्वतुल्योऽशुभपरिणामो भवतीति ।।८०७ ।।
चक्रे० : सम्प्रत्युपशमादिभ्यः सत्त्वानां क्रियाविशेषमाहुः - देव० : सम्प्रत्युपशमादीनामेव सहेतुकफलदर्शनद्वारेण स्वरूपमुपवर्णयति -
पयईए कम्माणं वियाणिउं वा विवागमसुहं ति।
अवरद्धे वि न कुप्पइ उवसमओ सव्वकालंपि।।२५५।। चक्रे० : प्रकृत्या स्वभावेन कर्मणां कषायरूपाणां विज्ञाय वा विपाकमशुभमित्यस्माद्धेतोरपराद्धेऽपि कर्तरि क्तः' कृतापराधेऽपि न कुप्यति । उपशमतः सर्वकालमप्य पराधिनिग्रहक्षमत्वकालेऽपीत्यर्थः ।।२५५।।
देव० : प्रकृत्या स्वभावेन कर्मणां कषायलक्षणानां विज्ञाय वा विपाकं परिणाममशुभं कटुफलमित्यस्माद्धेतोरपराद्धेऽपि भावे क्तः, विप्रिये सति न कुप्यति श्रुतत्वादपराधकारिभ्य एव उपशमतः सर्वकालमप्यपराधनिर्यातनसामर्थ्योत्पत्तावपीत्यर्थ इति गाथार्थः ।।२५५ ।।