________________
३५७
५-तत्त्वतत्त्वम् गा-२५६
__३५७ * धर्मसंग्रहण्याम्-८०८, श्रावकप्रज्ञप्तौ-५५ * प्रशमादीनां बाह्यप्रशस्तयोगत्वमुपदर्शयति -
पयईए व कम्माणं वियाणिउं वा विवागमसुहं ति ।
अवरद्धेऽवि न कुप्पइ उवसमतो सव्वकालंपि ।। प्रकृत्या वा सम्यक्त्वाणुवेदनजनितस्वभावरूपया विज्ञाय वा कर्मणां कषायनिबन्धनानां विपाकमशुभं यथा कषायाविष्टोऽन्तर्मुहूर्त्तमात्रेणापि यद् बध्नाति तदनेकाभिरपि सागरोपमकोटीभिर्युःखेन वेदयत इति, ततः किमित्याह-'अवरद्धे इत्यादि' अपराध्यति स्मेत्यपराद्धः प्रतिकूलकारी तस्मिन्नपि न कोपं गच्छति, उपशमत उपशमेन हेतुना सर्वकालमपि यावत्सम्यक्त्वपरिणामोऽवतिष्ठत इति भावः ।।८०८।।
चक्रे० : तथा - देवo. : तथा -
नरविबुहेसरसोक्खं दुक्खं चिय भावओ उ मनंतो।
संवेगओ न मोक्खं मोत्तूणं किंपि पत्थेइ।।२५६।। चक्रे० : नरविबुधेश्वराणां नरेन्द्रसुरेन्द्राणां सौख्यं दुःखमेव भावतो मन्यमानः ।
कह तं भन्नइ सुक्खं सुचिरेण वि जस्स दुक्खमल्लियइ ।
जं च मरणावसाणे भवसंसाराणुबंधिं च ।।[उपदेशमाला-३०] इति वचनात् । संवेगतो न मोक्षं मुक्त्वा किमपि प्रार्थयते।।२५६।। ।
देव० : नरविबुधेश्वराणां नरेन्द्रसुरेन्द्राणां सुखमेव सौख्यं विषयसेवाजनिता मनःपरितुष्टिदुःखानुषङ्गाद् दुःखमेव ।
कह तं भन्नइ सुक्खं सुचिरेण वि जस्स दुक्खमल्लियइ ।
जं च मरणावसाणे भवसंसाराणुबंधिं च ।। [उपदेशमाला-३०] भवभ्रमणानुबन्धि इति वचनाद्भावतः परमार्थतस्तुः पूरणे, मन्यमानः संवेगतो न मोक्षं मुक्त्वा किमपि प्रार्थयतेऽभिलषति, मोक्षसुखस्यैव भावतः सुखत्वेन मतत्वादिति गाथार्थः । ।२५६।।
१. सक्खं दक्खं चिय भावओ य T.C.P.K २. मुक्खं मुत्तूणं T.C.P.K