________________
३५८
रणम् - सम्यक्त्वप्रकरणम
* धर्मसंग्रहण्याम्-८०९, श्रावकप्रज्ञप्तौ-५६ *
तथा -
नरविबुहेसरसोक्खं दुक्खं चिय भावतो तु मन्नतो ।
संवेगतो न मोक्खं मोत्तूणं किंचि पत्थेइ ।। नरविबुधेश्वरसौख्यं चक्रवर्तीन्द्रसौख्यं कर्मजनिततया सावसानत्वेन दुःखनिबन्धनत्वात्, दुःखमेव भावतः परमार्थतो मन्यमानः संवेगतः संवेगेन हेतुना, न मोक्षं स्वाभाविकं जीवरूपमपर्यवसानं मुक्त्वा किञ्चिदन्यत् प्रार्थयते ।।८०९ ।।
चक्रे० : तथा - देव० : तथा -
नारय-तिरिय-नरामरभवेसु निव्वेयओ वसइ दुक्खं।
अकयपरलोयमग्गो ममत्तविसवेगरहिओ वि।।२५७।। चक्रे० : नारकादिभवेषु विषये निर्वेदतो वैराग्यवशान्ममत्वमेव विषं तस्य वेगो लहरिस्तद्रहितोऽपि धनस्वजनशरीरादिषु त्यक्तात्मीयत्वाभिमानोऽपि चारित्रमोहनीयवशान्न कृतः परः प्रकृष्टो लोकः सिद्धिक्षेत्ररूपस्तस्य मार्गश्चारित्रं येन सोऽकृतपरलोकमार्गः । दुःखं यथा भवत्येवं वसति । चारित्रमप्राप्नुवन् कष्टेनास्त इत्यर्थः ।।२५७।।
देव० : नारकादिभवेषु निर्वेदतो दुःखं यथा भवत्येवं वसत्यास्ते, अयमभिप्रायो नानाविधशारीरमानसदुःखगहने संसारकारागारे कर्मदण्डपाशिकैस्तथा तथा कदर्थ्यमानः प्रतिकर्तुमसमर्थो निर्वेदाद् दुःखं वसति, किंविशिष्टः सन् ? चारित्रमोहनीयपारतन्त्र्यान्न कृतः परलोको जन्मान्तरम्, स पुनरिह प्रस्तावाच्छुभस्तस्य मार्ग इव मार्गः कुशलानुष्ठानं येन सोऽपि, यद्वा परः प्रकृष्टः सर्वातिशायी स चासाववयवेऽपि समुदायप्रयोगालोकश्च सिद्धिक्षेत्रलक्षणः परलोकस्तस्य मार्गः प्राग्वत्, यद्यपि कर्मदोषाद्भवाब्धेनिस्तरणोपायं नानुतिष्ठति, तथापि तत्र निर्विण्ण एवास्त इत्यर्थः । अत एव ममत्वमेव दारुणपरिणामत्वेन विषं तस्य वेगो लहरिस्तेन रहितोऽनित्यतादिभावनाभावितत्वेन धनस्वजनशरीरादिवस्तुषु त्यक्तात्मीयत्वाभिमान इत्यर्थोऽपिभिन्नक्रमे योजित एवेति गाथार्थः ।।२५७।।