________________
५-तत्त्वतत्त्वम् गा-२५२
३५३
षटकायलेश्याः, जीवानां षटकायलेश्या जीवषट्कायलेश्याः, तत्र षटकायाः पृथ्वीकायादयः, षड् लेश्याः कृष्णाद्याः, पञ्चान्येवास्तिकाया धर्मास्तिकायाद्याः, पञ्चशब्दो व्रतादिष्वपि योज्यः, ततो व्रतानि पञ्च प्राणिवधविरमणादीनि, समितयः पञ्चेर्याद्याः, गतयो नारकाद्याः, ज्ञानानि मतिज्ञानादीनि, चारित्राणि सामायिकं छेदोपस्थापनीयं परिहारविशुद्धिकं सूक्ष्मसम्परायं यथाख्यातं चेति । पश्चार्धं स्पष्टम् ।।२५२ ।। देव० : त एव धनमर्हन्तीति धन्या आत्यन्तिकैकान्तिकधनवन्तः, उक्तं हि -
धनेन हीनोऽपि धनी मनुष्यो यस्यास्ति सम्यक्त्वधनं विचित्रम् ।
धनं भवेदेकभवे सुखाय भवे भवेऽनन्तसुखी सुदृष्टिः ।। [ ] तेभ्य एव नमः, सकलगुणाधारदर्शनगुणयुक्तत्वात्, त एव चिय एवार्थे सर्वत्र योज्यः, चिरजीविनो भवन्त्विति शेषो धर्मानुगतजीवितत्वात् । बुधाश्च त एव विवेकसम्पन्नत्वात् । तुः समुच्चये दर्शित एव, उत्तरार्धं स्पष्टम्, केवलमतिचाराः प्रागभिहिता इति गाथार्थः ।
इह च दर्शनविषयेषु कालद्रव्यतत्त्वादिषु क्वचित् सङ्ख्याविषया क्वचिन्नामविषया क्वचिच्चास्तित्वविषया परेषां विप्रतिपत्तिरतस्तन्निराकर्तुमाह -
त्रैकाल्यं द्रव्यषट्कं नवपदसहितं जीवषट्कायलेश्याः, पञ्चान्येवास्तिकाया व्रतसमितिगतिज्ञानचारित्रभेदाः । इत्येतन्मोक्षमूलं त्रिभुवनमहितैः प्रोक्तमर्हद्भिरीशैः;
प्रत्येति श्रद्दधाति स्पृशति च मतिमान् यः स वै शुद्धदृष्टिः ।। [प्रव.सारो० ९७१] व्याख्या-त्रिकालमेव त्रैकाल्यं भूतभवद्भविष्यत्स्वरूपम्, द्रव्याणि गुणाश्रयास्तेषां षट्कं धर्मास्तिकायाधर्मास्तिकायाकाशास्तिकायकालपुद्गलास्तिकायजीवास्तिकायरूपम्, पद्यन्ते गम्यन्ते सम्यग्ज्ञानिभिरिति पदानि तत्त्वानि नव च जीवाजीवादीनि तानि पदानि च तैः सहितम्, षट्शब्दः सिंहावलोकितन्यायेन जीवशब्देनापि सम्बध्यते, ततः प्रत्येकं षड्जीवा एकद्वित्रिचतुष्पञ्चेन्द्रियानिन्द्रियाः, कायाः पृथ्वीकायादयः, लेश्याः कृष्णाद्याः, पञ्चान्येवास्तिकाया धर्मास्तिकायादयः, कालस्तु निरुद्धसमयरूपत्वान्नास्तिकायः, पञ्चशब्दस्योत्तरपदेष्वपि सम्बन्धः । व्रतानि प्राणिवधविरमणादीनि, समितय ईर्याद्या, गतयो नारकाद्या, ज्ञानानि मत्यादीनि चारित्रभेदाः