________________
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
इह च शङ्का सकला सकलपदार्थभाक्त्वेन द्रव्यगुणविषया, असौ पुनः क्रियाविषयैवेति भेदः, यद्वा विचिकित्सा सदाचारनिन्दा, यथाऽस्नाने प्रस्वेदजलक्लिन्नत्वाद् दुर्गन्धवपुष इति, को दोषः स्याद्यदि प्रासुकवारिणाङ्गप्रक्षालनममी कुर्वीरन्निति । पाषण्डप्रशंसा च सर्वतः सर्वदर्शनानि युक्तियुक्तानीति मध्यस्थप्राया दृष्टिरिदमपि सम्यक्त्वदूषणमेव यदुक्तम् -
३५२
सुनिश्चितं मत्सरिणो जनस्य न नाथ ! मुद्रामतिशेरते ते ।
माध्यस्थ्यमास्थाय परीक्षका ये मणौ च काचे च समानुबन्धाः ।।[ अयोगव्य.द्वा० २७] देशतस्त्विदमेव बुद्धादिवचनं तत्त्वमिति, इदं तु व्यक्तमेव सम्यक्त्वदूषणम्, तैः सह संस्तवः परिचयस्तत्संस्तवः, एकत्र वासे हि तत्प्रतिक्रियादर्शनाद् दृढसम्यक्त्वस्यापि दृष्टिभेदः सम्भाव्यते, किमुत मन्दबुद्धेर्नवधर्मस्येति । एवंविधगुणयुक्तोऽर्हः सम्यक्त्वरत्नस्य, अमीषां गुणानां मध्ये केचित्सम्यक्त्वलाभहेतवः केचिद् भूषणकल्पाः केचित्प्रतिपातप्रतिबन्धकाश्च विज्ञेया, एतावद्गुणमार्गणेन च न्यक्कृतचिन्तामणि सम्यक्त्वरत्नमपात्रे समारोपयतः सिद्धान्तविराधनामाहेति गाथार्थः ।। २५१ ।।
"
चक्रे० : अथ सम्यक्त्ववतां श्लाघामाहुः
देव० : अथ स्वर्गापवर्गादिपरमसुखनिबन्धनसम्यक्त्वगुणशालिनां श्लाघामाह
-
ते धन्ना ताण नमो ते यि चिरजीविणो बुहा ते य । जे निरइयारमेयं धरंति सम्मत्तवररयणं । । २५२ ।।
चक्रे० : पाठसिद्धा, इह केचिज्जिनोक्तकालद्रव्यादिषु विप्रतिपद्यन्ते तान् निराकर्तुमाहुः त्रैकाल्यं द्रव्यषट्कं नवपदसहितं जीवषट्कायलेश्याः, पञ्चान्येवास्तिकाया व्रतसमितिगतिज्ञानचारित्रभेदाः । इत्येतन्मोक्षमूलं त्रिभुवनमहितैः प्रोक्तमर्हद्भिरीशैः;
प्रत्येति श्रद्दधाति स्पृशति च मतिमान् यः स वै शुद्धदृष्टिः ।। [ प्रव. सारो० ९७१] त्रिकालमेव त्रैकाल्यमतीतानागतवर्तमानरूपम् । द्रव्याणि गुणाश्रयास्तेषां षट्कम्, धर्मास्तिकायाधर्मास्तिकायाकाशास्तिकायजीवास्तिकायपुद्गलास्तिकायकालरूपम् । नव जीवाजीवादीनि तत्त्वानि तैः सहितम्, कायाश्च लेश्याश्च कायलेश्याः षट्सङ्ख्याः कायलेश्याः, १. प्रक्रिया T, B, C २. बुहा ते उ A