________________
५-तत्त्वतत्त्वम् गा-२५०, २५१
३५१
तथा जिनगुरुश्रुतभक्तिरतो व्यक्तम्, हितमितप्रियवचनजल्पकस्तत्र हितं पथ्यान्नवद्, मितमल्पं कार्यापेक्षमित्यर्थः, प्रियमाहलादि, तच्च तद्वचनं च तज्जल्पतीत्येवंशीलः, प्राक सामान्येन भाषापरिज्ञानमभिहितम्, इह तु यथा तज्जल्पनं तथेत्यपौनरुक्त्यम्, धीरो व्यसनेषु चाविक्लवः, शङ्कादयः शङ्काकाङ्क्षाविचिकित्सापरपाषण्डप्रशंसातत्संस्तवास्ते च ते, दूष्यते सम्यक्त्वमेभिरिति दोषाश्च तै रहितः । तत्र शङ्का सन्देहः, सा च सर्वविषया देशविषया च, आद्यास्ति वा नास्ति वा धर्म इत्यादि, द्वितीया त्वेकैकवस्तुधर्मगोचरा, यथास्ति जीवः केवलं सर्वगोऽसर्वगो वा सप्रदेशोऽप्रदेशो वेत्यादि, इयं च द्विधाप्यर्हत्प्रणीतप्रवचनेऽप्रत्ययरूपा सम्यक्त्वं दूषयति, केवलागमगम्या अपि हि पदार्था अस्मदादिप्रमाणपरीक्षानिरपेक्षा आप्तप्रणेतकत्वान्न सन्देग्धुं योग्या, यत्रापि मोहवशात् क्वचन संशयो भवति तत्राप्यप्रतिहतेयमर्गला यथा
तत्थ य मइदोब्बलेणं तव्विहायरियविरहओ वा वि । णेयगहणत्तणेण य नाणावरणोदएणं च ।। हेऊदाहरणासंभवे य सइ सुट्ट जं न बुज्झिज्जा। सव्वन्नुमयमवितहं तहा वि तं चिंतए मइमं ।। अणुवकयपराणुग्गहपरायणा जं जिणा जगप्पवरा ।
जियरागदोसमोहा नऽन्नहावाइणो तेणं ।। [ध्यानशतक-४७,४८,४९] काङ्क्षा अन्यान्यदर्शनग्रहः, सापि सर्वतो देशतश्च, सर्वतः सर्वपाषण्डिधर्मकाङ्क्षारूपा, एकादिदर्शनाकाङ्क्षा तु देशाकाङ्क्षा, यथा सुगतेन भिक्षुणामक्लेशको धर्म उपदिष्टः । यथा
मृद्वी शय्या प्रातरुत्थाय पेया भक्तं मध्ये पानकं चापराह्ने ।
द्राक्षाखण्डं शर्करा मध्यरात्रे मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः ।। [ ] एतदपि घटमानकमेव, न दूरापेतमित्यादि । इयमपि परमार्थतो जिनमतानाश्वासरूपा सम्यक्त्वं दूषयति । विचिकित्सा चित्तविप्लवः, स च सत्यपि युक्त्यागमोपपन्ने जिनधर्मेऽस्य महतस्तपःक्लेशस्यायत्यां फलसम्पद्भावि ?[आन्यथा क्लेशमात्रमेवेति, यतः कृषीवलादीनां क्रियाः सफला अफलाश्च दृश्यन्त इति । यदाह
पुव्वपुरिसा जहोचियमग्गचरा घडइ तेसिं फलजोगो । अम्हेसु धीसंघयणविरहओ न तह तेसिं फलं ।। [ ]