________________
३५०
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
पञ्चविधं दशविधं च सम्यक्त्वमुपशमादिभिर्भदैर्भवतीति, इदमुक्तं भवति-औपशमिकक्षायिकक्षायोपशमिकभेदात् त्रिविधम्, औपशमिकक्षायिकक्षायोपशमिकसास्वादनभेदाच्चतुर्विधम्, औपशमिकक्षायिकक्षायोपशमिकसास्वादनवेदकभेदात्पञ्चविधम्, एतदेव प्रत्येकं निसर्गाधिगमभेदाद्दशविधमिति, कथं पनविविधादिभेदं सम्यक्त्वमित्याह-सम्यग्-अवैपरीत्येनागमोक्तप्रकारेण, न तु स्वमतिपरिकल्पितभेदैरिति भावः ।।९४२।। चक्रे० : अथ सम्यक्त्वयोग्यमाहुः - देव० : अथ सम्यक्त्वयोग्यमाह -
भासामइबुद्धिविवेगविणयकुसलो जियक्ख गंभीरो। उवसमगुणेहिं जुत्तो निच्छयववहारनयनिउणो।।२५०।। जिणगुरुसुयभत्तिरओ हियमियपियवयणजंपिरो धीरो ।
संकाइदोसरहिओ अरिहो सम्मत्तरयणस्स।।२५१।। चक्रे० : भाषा सावद्येतररूपा, मतिर्यथावस्थितशास्त्रार्थबोद्धी, बुद्धिरौत्पत्त्यादिका, विवेकः कृत्याकृत्यादिविषयः, विनयः प्रतीतः, एषु कुशलः, जिताक्षो जितेन्द्रियः, गम्भीरोऽलक्ष्यरोषतोषादिः, उपशमप्रधानैर्गुणैर्युक्तः, निश्चयनयव्यवहारनयनिपुणः ।।२५०।।
द्वितीयगाथा तु स्पष्टा, नवरं शङ्कादिदोषरहितः, तत्र शङ्का जिनधर्मस्तत्त्वमतत्त्वं वेति सन्देहः, काङ्क्षा - अन्यान्यदर्शनाभिलाषः, विचिकित्सा आत्मनः फलं प्रति संशयः, आसीत्पूर्वेषां फलं सात्त्विकत्वाद् मादृशां तु क्व भविष्यति, विजुगुप्सा वा विदः साधवस्तेषां जुगुप्सा सदाचारनिन्दा, यथाऽतिमलदुर्गन्धा इमे मुनयो यधुष्णोदकेन स्नायुस्तदा को दोषः स्यात्, परपाषण्डिप्रशंसा तत्संस्तवस्तैः सह परिचयः, एते पञ्च सम्यक्त्वाऽतिचाराः ।।२५१।।
देव० : भाषा सावद्येतररूपा, मतिर्मेधा यथास्थितशास्त्रार्थविवेचनम्, बुद्धिरौत्पत्तिक्यादिका, विवेकः सम्यक्कृत्याकृत्यपर्यालोचनम्, विनयो गुर्वादिष्वभ्युत्थानादिः, एषु कुशलो निपुणः । जिताक्षो नियन्त्रितेन्द्रियो गम्भीरोऽनपलक्षितरोषतोषविषादादिः, विशेषणसमासश्चानयोः । उपशमेनोपलक्षिता गुणाः शमसंवेगादयो वक्ष्यमाणास्तैर्युक्तो, नयशब्दस्य प्रत्येकमभिसम्बन्धान्निश्चयनयव्यवहारनयनिपुणः ।।२५० ।।