________________
५-तत्त्वतत्त्वम् गा-२४९
३४९
च त्रिप्रकारमेकविधद्विविधत्रिविधमिति कर्मधारयसमासः । चतुर्द्धा चतुर्भिः प्रकारैः । पञ्च विधा अस्येति पञ्चविधं पञ्चभेदं तञ्च तद्दशविधं च दशप्रकारं पञ्चविधदशविधं 'सम्म' इति सम्यक्त्वम्, मोक्ष एव मुक्तिरेव तरुवृक्षस्तस्य बीजभूतं कारणभूतम्, सम्प्रतिराज इव धारयेद् बिभृयात् । तात्पर्यार्थस्त्वयम्एकविधादिभेदयुक्तं सम्यक्त्वं यतो मोक्षतरुबीजमतो धारयेत्सुस्वार्थी जीवस्तत्सम्प्रतिराज इव । इति गाथार्थः ।।२।।
___* प्रवचनसारोद्धारे-९४२ * एगविहदुविहतिविहं चउहा पंचविहदसविहं सम्म ।
दव्वाइ कारगाई उवसमभेएहि वा सम्मं ।। एकविधं द्विविधं त्रिविधं चतुर्धा पञ्चविधं दशविधं सम्यक्त्वं भवतीति शेषः, तत्रैकविधं तत्त्वार्थश्रद्धानलक्षणं सम्यक्त्वम्, एतच्चानुक्तमप्यविवक्षितोपाधिभेदत्वेन सामान्यरूपत्वादवसीयत इत्यस्यां गाथायां न विवृत्तम्, द्विविधादि तु न ज्ञायत इत्युल्लेखमाह-'दव्वाइ' इत्यादि, द्विविधं द्रव्यादिभेदतः, तत्र च 'दव्व'त्ति सूचामात्रत्वाद् द्रव्यतो भावतश्च, द्रव्यतो विशोधिविशेषेण विशुद्धिकृता मिथ्यात्वपुद्गला एव, भावतस्तु तदुपष्टम्भोपजनितो जीवस्य जिनोक्ततत्त्वरुचिपरिणामः, आदिशब्दः प्रकारान्तरैरपि द्विविधत्वदर्शनार्थः, तेन नैश्चयिकव्यावहारिकभेदतः पौद्गलिकापौद्गलिकभेदतो नैसर्गिकाधिगमिकभेदतोऽपि च द्विविधमिति, तत्र यद्देशकालसंहननानुरूपं यथाशक्ति यथावत्संयमानुष्ठानरूपं मौनम् अविकलं मुनिवृत्तं तनैश्चयिकं सम्यक्त्वम्, व्यावहारिकं तु सम्यक्त्वं न केवलमुपशमादिलिङ्गगम्यः शुभात्मपरिणामः किन्तु सम्यक्त्वहेतुरप्यर्हच्छासनप्रीत्यादिः कारणे कार्योपचारात्सम्यक्त्वम्, तदपि हि पारम्पर्येण शुद्धचेतसामपवर्गप्राप्तिहेतुर्भवतीति, उक्तं च - जं मोणं तं सम्मं जं सम्मं तमिह होइ मोणं तु । निच्छयओ इयरस्स उ सम्म सम्मत्तहेऊवि ।।
[यन्मौनं तत्सम्यक्त्वं यत्सम्यक्त्वं तदिह भवति मौनमेव ।
निश्चयस्य इतरस्य तु सम्यक्त्वहेतुरपि सम्यक्त्वम् ।।] व्यवहारनयमतमपि च प्रमाणम्, तद्बलेनैव तीर्थप्रवृत्तेः, अन्यथा तदुच्छेदप्रसङ्गात्, तदुक्तम् -
जइ जिणमयं पवज्जह ता मा ववहारनिच्छयं मुयह । ववहारनओच्छेए तित्थुच्छेओ जओऽवस्सं ।। [यदि जिनमतं प्रतिपद्यसे तर्हि व्यवहारनिश्चयौ मा मुञ्च । व्यवहारनयोच्छेदे तीर्थोच्छेदो यतोऽवश्यं ।।] इति, तथाऽपनीतमिथ्यास्वभावसम्यक्त्वपुञ्जगतपुद्गलवेदनस्वरूपं क्षायोपशमिकं पौद्गलिकम्, सर्वथा मिथ्यात्वमिश्रसम्यक्त्वपुञ्जपुद्गलानां क्षयादुपशमाच्च जातं केवलजीवपरिणामरूपं क्षायिकमौपशमिकं चापौद्गलिकम्, नैसर्गिकाधिगमिके पुनरग्रे वक्ष्येते, तथा 'त्रिविधं कारकादि' कारकरोचकदीपकभेदतः, 'उवसमभेएहिं वत्ति वाशब्दस्त्रैविध्यस्यैव प्रकारान्तरप्रदर्शनार्थः, बहुवचनं च गणार्थम्, ततत्रिविधं चतुर्विधं