Book Title: Darshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Author(s): Vijaykirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 417
________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् चक्रे० : किञ्च - देव० : तथा चाह - जे मज्झत्था धम्मत्थिणो य जेसिं च आगमे दिट्ठी। तेसिं उवयारकरो एसो न उ संकिलिट्ठाणं ।।२६८।। चक्रे० : एषाऽपि स्पष्टा।।२६८।।। देव० : ये मध्यस्था अपक्षपातिनस्ते पुनरुदासीना अपि स्युर्नेत्याह, धर्मार्थिनश्च धर्मश्रद्धाल वस्तेऽपि स्वमतिप्रवृत्तयो धूर्त्तविप्रतारिता वा स्युर्न, येषां चागमे दृष्टिदर्शनं श्रद्धानं बहुमतिरिति यावद् । तेषामुपकारकरो हितकृदेष ग्रन्थो न तु सक्लिष्टानां रागद्वेषोपहतमनोवृत्तीनां तेषामुपकर्तुमशक्यत्वात्, तथा च - रागासक्ते चेतसि धर्मकथा स्थानमेव नो लभते । नीलीरक्ते वाससि कुङ्कुमरागो दुराधेयः ।। [ ] इति गाथार्थः ।।२६८ ।। चक्रे० : अथास्य प्रकरणस्य माहात्म्यख्यापनाय नामान्याहुः - देव० : अर्थतस्या दर्शनशुद्धेर्विद्वच्चेतसि गौरवमारोपयन्नामान्याह - उवएसरयणकोसं संदेहविसोसहिं व विउसजणा। अहवा वि पंचरयणं दंसणसुद्धिं इमं भणह।।२६९।। चक्रे० : उपदेशरत्नकोशं, सन्देहविषौषधिं वाऽथवापीति समुच्चये, रत्नानीव रत्नानि दुष्प्रापत्वेन, ततश्च पञ्चानां देवधर्ममार्गसाधुतत्त्वलक्षणानां रत्नानां समाहारः पञ्चरत्नम् । दर्शनस्य सम्यक्त्वस्य शुद्धिहेतुत्वाच्छुद्धिस्ताम्, इमां हे विद्वज्जना ! भणतेति सर्वत्र योगः ।।२६९ ।। देव० : उपदेशा एव समीहितसाधकत्वेन रत्नानि तेषां कोशो निधिस्तम्, सन्देह एव व्यामोहकत्वेन विषं तस्यौषधिस्तां वाऽथवापीति समुच्चये, रत्नानीव रत्नान्यगण्यपुण्यप्राप्यत्वेन ततश्च पञ्चानां देवधर्ममार्गसाधुतत्त्वलक्षणानां रत्नानां समाहारः पञ्चरत्नं दर्शनस्य सम्यक्त्वस्य शुद्धिहेतुत्वाच्छुद्धिस्तामिमां हे विद्वज्जना ! भणतेति सर्वत्र योग इति गाथार्थः । ।२६९।। १. विबुहजणा Z २. अगण्यप्रायत्वेन A

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512