________________
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
चक्रे० : किञ्च - देव० : तथा चाह -
जे मज्झत्था धम्मत्थिणो य जेसिं च आगमे दिट्ठी।
तेसिं उवयारकरो एसो न उ संकिलिट्ठाणं ।।२६८।। चक्रे० : एषाऽपि स्पष्टा।।२६८।।। देव० : ये मध्यस्था अपक्षपातिनस्ते पुनरुदासीना अपि स्युर्नेत्याह, धर्मार्थिनश्च धर्मश्रद्धाल वस्तेऽपि स्वमतिप्रवृत्तयो धूर्त्तविप्रतारिता वा स्युर्न, येषां चागमे दृष्टिदर्शनं श्रद्धानं बहुमतिरिति यावद् । तेषामुपकारकरो हितकृदेष ग्रन्थो न तु सक्लिष्टानां रागद्वेषोपहतमनोवृत्तीनां तेषामुपकर्तुमशक्यत्वात्, तथा च -
रागासक्ते चेतसि धर्मकथा स्थानमेव नो लभते ।
नीलीरक्ते वाससि कुङ्कुमरागो दुराधेयः ।। [ ] इति गाथार्थः ।।२६८ ।। चक्रे० : अथास्य प्रकरणस्य माहात्म्यख्यापनाय नामान्याहुः - देव० : अर्थतस्या दर्शनशुद्धेर्विद्वच्चेतसि गौरवमारोपयन्नामान्याह -
उवएसरयणकोसं संदेहविसोसहिं व विउसजणा।
अहवा वि पंचरयणं दंसणसुद्धिं इमं भणह।।२६९।। चक्रे० : उपदेशरत्नकोशं, सन्देहविषौषधिं वाऽथवापीति समुच्चये, रत्नानीव रत्नानि दुष्प्रापत्वेन, ततश्च पञ्चानां देवधर्ममार्गसाधुतत्त्वलक्षणानां रत्नानां समाहारः पञ्चरत्नम् । दर्शनस्य सम्यक्त्वस्य शुद्धिहेतुत्वाच्छुद्धिस्ताम्, इमां हे विद्वज्जना ! भणतेति सर्वत्र योगः ।।२६९ ।।
देव० : उपदेशा एव समीहितसाधकत्वेन रत्नानि तेषां कोशो निधिस्तम्, सन्देह एव व्यामोहकत्वेन विषं तस्यौषधिस्तां वाऽथवापीति समुच्चये, रत्नानीव रत्नान्यगण्यपुण्यप्राप्यत्वेन ततश्च पञ्चानां देवधर्ममार्गसाधुतत्त्वलक्षणानां रत्नानां समाहारः पञ्चरत्नं दर्शनस्य सम्यक्त्वस्य शुद्धिहेतुत्वाच्छुद्धिस्तामिमां हे विद्वज्जना ! भणतेति सर्वत्र योग इति गाथार्थः । ।२६९।। १. विबुहजणा Z २. अगण्यप्रायत्वेन A