________________
५- तत्त्वतत्त्वम् गा - २६६, २६७
एतदेव पर्यवसितमाह
एषां त्रयाणामेव ज्ञानादीनामपिशब्दोऽवधारणार्थः सम्भावने वा, किं सम्भावयति ? निश्चयतः क्षायिकानां न तु क्षायोपशमिकानां सङ्गमेन भणितो मोक्षः सर्वथाष्टविधकर्ममलविगमलक्षणो जिनेन्द्रागम इति । ननु पूर्वं सम्यग्दर्शनक्रिययोः सहकारित्वं प्रस्तावितम्, इह तु सम्यग्दर्शनस्य नामापि नोपात्तम्, तत्कथं न पूर्वापरविरोधः ? न, तस्य रुचिरूपत्वेन ज्ञानविशेषत्वात्तद्भणनेनैव भणनमवसेयम्, एवं च 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' इत्येतदपि सुप्रतिष्ठितमिति ज्ञानतपःशब्दोपादानेन चान्तमङ्गलमनेनाविष्कृतमिति वृत्तार्थः।। २६५ । ।
चक्रे० : साम्प्रतं सूत्रकाराः स्वाभिधानं भङ्ग्या प्रतिपादयन्तः प्रकरणोपसंहारमाहुः देव० : साम्प्रतं सूत्रकारः स्वाभिधानं भङ्ग्या प्रतिपादयन् यदादौ तुच्छमतीनामनुग्रहात प्रतिज्ञातं तन्निर्वहणेनोपसंहरति
चंददम-पवरहरि - सूर - रिद्धि - पयनिवह- पढमवन्नेहिं । जेसिं नामं तेहिं परोवयारंमि निरएहिं । । २६६ ।। इय पायं पुव्वायरिय- रइय गाहाण संगहो एसो । विहिओ अणुग्गहत्थं कुमग्गलग्गाण जीवाणं । । २६७ ।।
३७९
चक्रे० : स्पष्टा, नवरं चन्द्रादिपदप्रथमवर्णैर्येषां नाम तच्चंदप्पहसूरि 'त्ति तैः ।। २६६, २६७ ।। देव० : चन्द्रादिपदनिवहप्रथमवर्णैर्येषां नाम तच्चंदप्पहसूरि 'त्ति, तैः परोपकारनिरतैरिति किमित्याह- इतिः समाप्तौ प्रायो बाहुल्येन पूर्वाचार्यरचितगाथानां सङ्ग्रह इतस्ततो भणितानामिह सञ्चय एष साक्षादुक्तो भणितः, प्राय इत्यनेन च सूत्रतः स्वोपज्ञा अपि काश्चिद्गाथाः सन्तीत्यावेदयति, अनुग्रहार्थं कुमार्गलग्नानां जीवानामेतद्भणनं चामीषां विशेषानुकम्पनीयत्वख्यापनार्थम्, यतः
-
सुहसीलत्तेण गहिए भवपल्लिं तेण जगडियमणाहे ।
जो कुणइ विवियत्तं सो वन्नं कुणइ तित्थस्स ।। [सुमिणसित्तरी- ४८] कुमार्गलग्नत्वं च तेषामज्ञतया न पुनरभिनिविष्टतयेति गाथाद्वयार्थः । । २६६, २६७।।