________________
३७०
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
चक्रे० : अथ सम्यग्दर्शनक्रिययोः सहकारित्वे सति किं केन स्वभावेनोपकरुत इत्याहः - देव० : अथ सम्यग्दर्शनक्रिययोः सहकारित्वे सति किं केन स्वभावेनोपकुरुते ? किमविशेषेण शिबिकोद्वाहकपुरुषवदुत भिन्नस्वभावतया गमनक्रियायां नयनचरणादिवद, अत्रोच्यते, भिन्नस्वभावतया, अत आह -
सम्मग्गस्स पयासगं इह भवे नाणं तवो सोहणं, कम्माणं चिरसंचियाण निययं गुत्तीकरो संजमो । बोधब्बो नवकम्मुणो नियमणे भावह एयं सया;
एसिं तिण्हवि संगमेण भणिओ मोक्खो जिणिंदागमे ।।२६५ ।। चक्रे० : इह मोक्षार्थप्रवृत्तौ सन्मार्गस्य प्रकाशकं भवेज्ज्ञानं सम्यग्दर्शनाविनाभूतम्, मिथ्यादृशां ज्ञानस्याप्यज्ञानरूपत्वात्, क्रिया तु तपःसंयमरूपतया द्विधा, तत्र तपः शोधनं कर्मणां चिरसंचितानां नियतं निश्चितम्, गुप्तिकरो निरोधकः संयमो नवकर्मण आगन्तुपाप्मनः, निजमनस्येवं सदा भावयत । एषां त्रयाणामपि संगमेन मोक्षो जिनागमे भणितः । एतावता 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' इति प्रतिष्ठितम् । ज्ञानतपःशब्दोपादानेन चान्तमङ्गलमिहाविष्कृतमिति वृत्तार्थः ।।२६५ ।।
देव० : तत्र कचवरसमन्वितमहागृहशोधने प्रदीपपुरुषादिव्यापारवदिह कर्मकचवरभृतजीवशोधनालम्बनो ज्ञानादीनां स्वभावभेदेन व्यापारोऽवसेय इति समुदायार्थः । अवयवार्थस्तु सन्मार्गस्य मोक्षाध्वनः प्रकाशकमिह सहकारिव्यापारविचारे भवेज्ज्ञानं प्रदीपवत्, क्रिया तु तपःसंयमरूपतया द्विधा, तत्र तपः शोधयतीति शोधनं कर्मणां चिरसञ्चितानाम्, कर्मकरपुरुष इव कचवरस्य, नियतं निश्चितं गुप्तिकरो निरोधकः संयमो बोधव्यः, कस्य ? नवकर्मण आगन्तुकपाप्मनः, पवनप्रेरितकचवरादि निरोधकवातायनादिस्थगनवत्, निजमनसि भावय, नैवं सदा न पुनरेकमेव ज्ञानं क्रिया वा सर्वत्र प्रकाशादिष्वलमेवंरूपाभ्युपगमस्य मिथ्यात्वाद् यदाह
नाणाहीणं सव्वं नाणनओ भणइ किंच किरियाए । चरणनओ किरियाए तदुभयगा होउ सम्मत्तं ।। [ ] इति ।
१. नवकम्माणो PK २. तिन्नवि T.C