________________
५-तत्त्वतत्त्वम् गा-२६३, २६४
३६९
* उपदेशमाला पुष्पमालायाम्-११८ * उक्ताः सर्वचरणमूलगुणाः, तदुत्तरगुणान्निरूपयन्नाह -
पिंडविसोही समिई भावण पडिमा य इंदियनिरोहो ।
पडिलेहण गुत्तीओ अभिग्गहा उत्तरगुणेसु ।। प्रकटार्था, नवरमुपलक्षणमात्रमेव पिण्डविशुद्धयादीनामुत्तरगुणत्वम्, ततश्च ‘इच्छा मिच्छा तहक्कारो' इत्यादिप्रकारा अन्या अपि सामाचार्योऽत्रोत्तरगुणेषु द्रष्टव्याः, तदेवं लेशमात्रतया निरूपितं भेदतश्चारित्रम्, एवमपरेऽपि सामायिकच्छेदोपस्थापनीयादयश्चारित्रभेदाः समयचर्याभिज्ञैरिह वक्तव्याः ।।११८ ।।
* प्रवचनसारोद्धारे-५६२ * इदानीं 'करणं'ति सप्तषष्टं द्वारमाह -
पिंडविसोही समिई भावण पडिमा य इंदियनिरोहो ।
पडिलेहण गुत्तीओ अभिग्गहा चेव करणं तु ।। ‘पिंडे 'त्यादिगाथा, 'पिडि सङ्घाते' इत्यस्य 'इदितो नुम् धातो' (पा० ७-१-५८) रिति नुमि कृते पिण्डनं पिण्डः सङ्घातः, बहूनां सजातीयानां विजातीयानां वा कठिनद्रव्याणामेकत्र समुदाय इत्यर्थः, समुदायश्च समुदायिभ्यः कथञ्चिदभिन्न इति त एव बहवः पदार्था एकत्र संश्लिष्टाः पिण्डशब्देनोच्यन्ते तस्य विविधमनेकैराधाकर्मादिपरिहारप्रकारैः शुद्धिर्निर्दोषता पिण्डविशुद्धिः, सं-सम्यक् प्रशस्ता अर्हत्प्रवचनानुसारेणेतिश्चेष्टा समितिः-ईर्यासमित्यादिका, भाव्यन्त इति भावनाः अनुप्रेक्षा अनित्यत्वादिकाः, प्रतिमाः प्रतिज्ञा अभिग्रहप्रकारा मासिक्यादयः, इन्द्रियाणि स्पर्शनादीनि तेषां निरोध आत्मीयात्मीयेष्टानिष्टविषयरागद्वेषाभाव इत्यर्थः, प्रतिलेखनं प्रतिलेखना आगमानुसारेण प्रति प्रति निरीक्षणमनुष्ठानं वा, सा च चोलपट्टादेरुपकरणस्य, गुप्तिः गोपनमात्मसंरक्षणं मुमुक्षोोगनिग्रह इत्यर्थः, अभिगृह्यन्त इत्यभिग्रहा नियमविशेषा द्रव्यादिभिरनेकप्रकाराः, चः समुच्चय एवकारः क्रमप्रतिपादनार्थः, एतत्करणं भवतीति, क्रियत इति करणं मोक्षार्थिभिः साधुभिनिष्पाद्यत इत्यर्थः, तुशब्दो विशेषण मूलगुणसद्भावे करणत्वमस्य नान्यथेति (दर्शनाय)। अत्राह परः - ननु समितिग्रहणेनैव पिण्डविशुद्धर्गृहीतत्वान्न पिण्डविशुद्धिग्रहणं कर्तव्यम्, यत एषणासमितौ सर्वाऽप्येषणा गृहीता, पिण्डविशुद्धिरप्येषणैव, तत्किं भेदेनोपन्यासः ? इति, अत्रोच्यते, पिण्डद्रव्यव्यतिरेकेणाप्येषणा विद्यते वसत्यादिरूपा तद्ग्रहणार्थमेषणासमितिग्रहणं भविष्यतीति पिण्डविशुद्धस्तु भेदेनोपन्यासः कारणे ग्रहणं कर्तव्यं नाकारण इत्यस्यार्थस्य ज्ञापनार्थः, अथवाऽऽहारमन्तरेण न शक्यते पिण्डविशुद्ध्यादिकरणं सर्वमेव कर्तुमतो भेदेनोपन्यास इति ।।५६२।।