SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ ५-तत्त्वतत्त्वम् गा-२७०, २७१ ३७३ चक्रे० : अथैतत् स्वरूपनिरूपणपुरस्सरं भव्यान् पठनादिभिराशासते - देव० : अर्थतत्स्वरूपनिरूपणपुरस्सरं भव्यानामुपदेशरूपतया पठनाद्याशिषः प्राह - मिच्छमहन्नवतारणतरियं आगमसमुद्दबिंदुसमं। कुग्गाहग्गहमंतं संदेहविसोसहिं परमं ।।२७०।। एवं सणसोहिं सब्वे भव्वा पढंतु निसुणंतु । जाणंतु कुणंतु लहंतु सिवसुहं सासयं ज्झत्ति ।।२७१।। चक्रे० : मिथ्यात्वमहार्णवतारणतरीमागमसमुद्रबिन्दुसमाम् । कुग्राहग्रहमन्त्रं सन्देहविषौषधिं परमां प्रकृष्टां सन्देहविषौषधीमिति च, प्राग्नामत्वेनोक्तम्, इह तु विशेषणत्वेनेति न पौनरुक्त्यम्।।२७०।। एतां दर्शनशुद्धिं सम्यक्त्वमिति प्रसिद्धोल्लापननामिकां सर्वे भव्याः पठन्तु सूत्रतः, पठित्वाऽर्थतो निशृण्वन्तु, श्रुत्वा तदर्थं जानन्तु, ज्ञात्वा कुर्वन्तु तदुक्तमनुतिष्ठन्तु, तदनुष्ठाय लभन्तां शिवसुखं शाश्वतं झटिति, तदर्थत्वात्सर्वानुष्ठानानामिति ।।२७१।।। ।। इति पूज्यश्रीचक्रेश्वरसूरिप्रारब्धायां तत्प्रशिष्यश्रीतिलकाचार्यनिर्वाहितायां सम्यक्त्ववृत्तौ समर्थितं पञ्चमं तत्त्वतत्त्वं तत्समाप्तौ च समाप्ता सम्यक्त्वप्रकरणवृत्तिरिति ।। प्रशस्तिः तीर्थे वीरविभोः सुधर्मगणभृत्सन्तानलब्धोन्नतिः, चारित्रोज्ज्वलचन्द्रगच्छजलधिप्रोल्लासशीतद्युतिः । सम्यक्त्वाभिधशास्त्रसूत्रनगरीसंसूत्रणासूत्रभृत्; श्रीचन्द्रप्रभसूरिरद्भुतमतिर्वादीभसिंहोऽभवत् ।।१।। तत्पट्टलक्ष्मीश्रवणावतंसाः श्रीधर्मघोषप्रभवो बभूवुः । यत्पादपद्मे कलहंसलीलां दधौ नृपः श्रीजयसिंहदेवः ।।२।। १. दंसणसुद्धि PK
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy