________________
३७४
रणम - सम्यक्त्वप्रकरणम
तत्पट्टोदयशैलशृङ्गमभजत्तेजस्विचूडामणिः, श्रीचक्रेश्वरसूरिरित्यभिधया देवस्त्विषामीश्वरः । यः सम्यक्त्वसरोजकोरकममुं नेतुं विकासश्रियं; व्याख्या/षि विनेयषट्पदमुदे व्यापारयामासिवान् ।।३।। प्राप्ताचार्यपदैश्वर्याः षड् विनेयाः स्वदीक्षिताः । भूषयन्ति स्म तत्पढें साम्राज्यमिव षड्गुणाः ।।४।। तेष्वादिमः सुमतिसिंहगुरुर्बभूवान् दिक्कूलमुद्वहयशस्तटिनीगिरीन्द्रः । विद्यावधूवदनकैरवपूर्णचन्द्रश्चन्द्रोज्ज्वलस्वगुरुगच्छधरावराहः ।।५।। श्रीबुद्धिसागरगुरुः प्रथितो द्वितीयः, श्रीमांस्तृतीयगणभृत् त्रिदशप्रभाख्यः । श्रीतीर्थसिंह इति सूरिवरश्चतुर्थः प्रज्ञातिरेककुलिशक्षतवादिशैलः ।।६।। श्रीमान् शिवप्रभसूरिः समजायत पञ्चमः । परं कुतूहलमिदं यन्न रागाधिभूरभूत् ।।७।। कीर्तिप्रभाभिधानश्च षष्ठोऽभूद् गणभृद्वरः । निःशेषवाङ्मयं व्याप यस्य सूक्ष्मापि शेमुषी ।।८।। श्रीशिवप्रभसूरीणां, शिष्यलेशोऽस्मि मन्दधीः । नाम्ना श्रीतिलकाचार्यः श्रुताराधनगृद्धिभाक् ।।९।।
।। इति श्रीसम्यक्त्वरत्नमहोदधिः संपूर्णः ।। संवत् १५०४ वर्ष आश्विनशुक्ले १० सोमवारे साधुपूर्णिमागच्छे चन्द्रप्रभसूरिसन्ताने भ० श्रीपुण्यचन्द्रसूरिशिष्यगणिवरजयसिंहगणिना राणपुरे नगरे सम्यक्त्वरत्नमहोदधिग्रन्थपुस्तकं लिखितं परोपकारहेतवे ।।श्री।।
सोऽहं वृत्तिं प्रगुरुभिरिमां कर्तुमारब्धमात्राम्, तत्पादाब्जस्मरणसहसा मुग्धधीरप्यकार्षम् । तद्यत्किञ्चिद्रभसवशतो दृब्धमस्यामशुद्धम्
तत्संशोध्यं मयि कृतकृपैः सूरिभिस्तत्त्वविद्भिः ।।१०।। १. इति र