________________
३१४
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
अणबंधोदयमाउगबंधं कालं पि सासणो कुणइ ।
उवसम सम्मद्दिट्ठी चउण्हमिक्कं पि नो कुणइ ।। [ ] इति वचनादपर्याप्तस्य पारभविकौपशमिकसम्यक्त्वस्याप्यसम्भवः । उपशान्तमोहस्य सर्वार्थोत्पत्तावपि 'पढमसमए चेव संमत्तपुंजं उदयावलियाए छोढूण सम्मत्तपुग्गले वेएइ त्ति [ ]
नाऽपर्याप्तस्यौपशमिकत्वम् । मिश्रे पर्याप्तसंज्ञी १ । सास्वादने बादरैकेन्द्रियद्वित्रिचतुरिन्द्रियाऽसंज्ञिनोऽपर्याप्ताः संज्ञिद्वयं च ७ । मिथ्यात्वे सर्वाणि १४ । संज्ञिनि संज्ञिद्वयम् २ । असंज्ञिनि संज्ञिद्वयवर्जानि द्वादश १२ । आहारके सर्वाणि १४ । अनाहारके सप्ताप्यपर्याप्ताः संज्ञीपर्याप्तोऽपीत्यष्टौ ८ ।।
देवनारकगत्योश्चत्वार्याद्यानि गुणस्थानानि ४ । तिर्यग्गतौ पञ्च ५ । मनुष्यगतौ चतुर्दश १४ । एकद्वित्रिचतुरिन्द्रियेष्वाद्ये द्वे २ । पञ्चेन्द्रियेषु सर्वाणि १४ । पृथिव्युदकवनस्पतिकायेषु द्वे २ । तेजस्कायवायुकाययोरेकम् १ । त्रसकाये सर्वाणि १४ । योगेष्वयोगिवर्जानि त्रयोदश १३ । वेदेष्वाद्यानि नव ९ । कषायत्रयेऽपि तान्येव ९ । लोभे दशाऽऽद्यानि १० । मतिश्रुताऽवधिज्ञानेष्वविरतादीनि नव ९ । मनःपर्यायज्ञाने प्रमत्तादीनि सप्त ७ । केवलज्ञानेऽन्त्ये द्वे २ । अज्ञानत्रिके आद्यानि त्रीणि ३ । सामायिकच्छेदोपस्थापनीययोः प्रमत्तादीनि चत्वारि ४ । परिहारविशुद्धिके प्रमत्तापमत्ते द्वे २ । देशसंयमे विरताऽविरतमेकम् १ । सूक्ष्मसम्पराये सूक्ष्मसम्परायमेकम् १ । यथाख्यालेऽन्त्यानि चत्वारि ४ । असंयम आद्यानि चत्वारि ४ । चक्षुरचक्षुदर्शनयोराद्यानि द्वादश १२ । अवधिदर्शनेऽविरतादीनि नव ९ । केवलदर्शनेऽन्त्ये द्वे २ । आद्यलेश्यात्रय आद्यानि षट् ६ । तेजपद्मयोस्तु सप्त ७ । शुक्लायामाद्यवर्जानि १३ । भव्ये सर्वाणि १४ । अभव्य आद्यम् १ । क्षायोपशमिकसम्यक्त्वेऽविरतादीनि चत्वारि ४ ।
औपशमिकेऽष्टौ ८ । क्षायिक एकादश ११ । सास्वादने द्वितीयम् १ । मिश्रे तृतीयम् १ । मिथ्यात्व आद्यम् १ । संज्ञिनि सर्वाणि १४ । असंज्ञिन्याद्यद्वयम् २ । आहारक आद्यानि त्रयोदश १३ । अनाहारके मिथ्यात्वसास्वादनाऽविरतसयोग्ययोग्याख्यानि ५ ।
देवनारकगत्योरौदारिकद्विकाऽऽहारकद्विकोना एकादश योगाः ११ । तिर्यग्गतावाहारकद्विकोनाः १३ । मनुष्यगतौ सर्वे १५ । एकेन्द्रियेष्वौदारिकद्विकवैक्रियद्विककार्मणाख्याः पञ्च १. पोग्गलो वइत्ति PK