________________
३१६
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
दर्शनत्रिकं च ७ । मिश्रे ज्ञानत्रयं दर्शनत्रयं चाऽज्ञानमिश्रम् ६ । सास्वादने मिथ्यात्वे च दर्शनद्वयमज्ञानत्रयं च ५ । संज्ञिनि द्वादश १२ । असंज्ञिनि द्वेऽज्ञाने द्वे दर्शने च ४ । आहारके द्वादश १२ । अनाहारके मनःपर्यायचक्षुर्दर्शनोनाः १० । एवं गत्यादिषु जीवस्थानगुणस्थानयोगोपयोगा दर्शिता इति।।२३५ ।।
देव० : इह प्राकृतत्वात् क्वचिद्विभक्तिलोपः क्वचित्त्वेकवद्भावस्तत्र गताविति गतिमङ्गीकृत्य ४, 'इंदिए यत्ति इन्द्रियाण्यङ्गीकृत्य ५, एवं काये पृथिवीकायादौ ६, योगे मन आदौ ३, वेदे स्त्र्यादौ ३, कषाये क्रोधादौ ४, ज्ञाने मत्यादावुपलक्षणत्वान्मत्यज्ञानादौ च ८, एवमन्यत्रापि यत्र सविपक्षं पदं तत्रायमेव हेतुः, संयमे देशसंयमसामायिकादावसंयमे च ७, दर्शने चक्षुर्दर्शनादौ ४, लेश्यासु कृष्णाद्यासु ६, भीमसेनवत्समुदायशब्दानामवयवेऽपि वृत्तिदर्शनाद्भवसिद्धिकेऽभव्ये च २, 'सम्मि'त्ति सम्यक्त्वे क्षायोपशमिकक्षायिकौपशमिकमिश्रसास्वादनरूपे मिथ्यात्वे च ६, संज्ञिन्यसंज्ञिनि च २, आहारकेऽनाहारके च, प्रथमश्चकारः समुच्चयार्थः, द्वितीयस्त्वेतेषामेव पदानामवान्तरभेदसूचकोऽत एव मूलतश्चतुर्दशसूत्तरभेदापेक्षया तु द्विषष्टिप्रमाणेष्विति गाथार्थः ।
किमित्याह ‘एएसु मग्गणठाणेसु जीवगुणजोगुवओगामग्गिज्जंति'त्ति वाक्यम्, एतच्चैवं विचित्रत्वात्तन्त्ररचनाया अत एव नानाछन्दोविशेषैर्विरचनमिति । मार्यन्ते विचार्यन्ते जीवादिपदान्यास्विति मार्गणास्ताश्च तानि स्थानानि च विचारास्पदानि तेषु, शेषं स्पष्टम्, तथा यद्यपि पूर्वमेकविधत्वद्विविधत्वादिभिर्बहुभिः प्रकारैर्जीवस्थानानि प्रतिपादितानि, तथाप्यतिसङ्क्षपाश्रयणाद् दुरवगमम्, विस्तराश्रयणे च सङ्क्षपरुचित्वात्सत्त्वानामनादेयं स्यादिति मध्यमस्थानवर्ती चतुर्दशक एव मार्गणासु मार्यते, अस्यैव सूत्रे प्रायो विचारणात्,
तत्र गतिमङ्गीकृत्य तावत्सुरनारकयोः पर्याप्तापर्याप्तसंज्ञिनौ २, मनुष्येषु तृतीयोऽसंश्यपर्याप्तः ३, तिर्यक्षु चतुर्दशापि जीवस्थानानि १४ । इन्द्रियाण्यधिकृत्यैकेन्द्रिये पर्याप्तापर्याप्तसूक्ष्मबादराः ४, द्वित्रिचतुरिन्द्रियेषु तावेव पर्याप्तापर्याप्तौ द्वौ द्वौ २, पञ्चेन्द्रियेषु पर्याप्तापर्याप्ताऽसंज्ञिसंज्ञिनः ४ । कायद्वारे स्थावरेषु पञ्चस्वप्येकेन्द्रियेष्विव ४, त्रसेषु शेषा दश १०। योगद्वारे मनोयोगे पर्याप्तसंश्येव १, वाग्योगे पर्याप्तद्वित्रिचतुरिन्द्रियासंज्ञिसंज्ञिनः ५, काययोगे सर्वेऽपि १४ । वेदद्वारे