________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रबन्धा
चतुर्विंशति ॥३०॥
अनेन आमनाम्ना तत्सुतेन भाव्यम् । एवं चिरं विभाव्य सूरयस्तमूचु:-"वत्स! बस निश्चिन्तो निजेन सुहृदा बप्पमहिनाम्ना सममस्मत्सन्निधौ। त्वं गृहाण कलाः। कास्ताः?-लिखितम् १ गणितम् २ गीतम् ३ नृत्यम् ४ पठितम् ५ वाचम् ६ व्याकरणम् ७ छन्दो ८ ज्योतिषम् ९ शिक्षा १० निरुक्तम् | ११ कात्यायनम् १२ निघण्टु १३ पत्रच्छेद्यम् १४ नखच्छेद्यम् १५ रत्नपरीक्षा १६ आयुधाभ्यासम् १७ गजारोहणम् १८ तुरगारोहणम् १९ तयोःशिक्षा २० मन्त्रवादः २१ यन्त्रवादः २२ रसवादः २३ खन्यवादः२४ | रसायणम् २५ विज्ञानम् २६ तर्कवादः २७ सिद्धान्तः २८ विषवादः २९ गारुडम् ३० शाकुनम् ३१ वैद्यकम् ३२ आचार्यविद्या ३३ आगमः ३४ प्रासादलक्षणम् ३५ सामुद्रिकम् ३६ स्मृतिः ३७ पुराणम् ३८ इतिहास: ३९ वेदः ४० विधिः४१ विद्यानुवादः ४२ दर्शनसंस्कारः ४३ खेचरीकला ४४ अमरीकला ४५ इन्द्रजालम् ४६ पातालसिद्धिः ४७ धूर्त्तशम्बलम् ४८ गन्धवादः ४९ वृक्षचिकित्सा ५० कृत्रिममणिकर्म ५१ सर्वकरणी ५२| | वश्यकर्म ५३ पणकर्म ५४ चित्रकर्म ५५ काष्ठपटनम् ५६ पाषाणकर्म ५७ लेपकर्म ५८ चर्मकर्म ५९ यन्त्रकरसवती ६० काव्यम् ६१ अलङ्कारम् ६२ हसितम् ६३ संस्कृतम् ६४ प्राकृतम् ६५ पैशाचिकम् ६६ अपभ्रशम् ६७ कपटम् ६८ देशभाषा ६९ धातुकर्म ७० प्रयोगोपायम् ७१ केवलीविधिः ७२ एताः सकलाः कलाः शि|क्षितवान । लक्षणतर्कादिग्रन्थान परिचितवान् । बप्पभहिना साकमस्थिमज्जन्यायन प्रीतिं बद्धवान् ।
For Private And Personal