Book Title: Chaturvinshati Prabandh
Author(s): Rajshekharsuri
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 249
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रवन्धः चतुर्विशति ॥१२२ ।। कार्यमेव न ।" इत्युक्तं च । अहो दर्शनभक्तिरिति ध्वनितं सर्वम् । एकदा मन्त्रीश्वरो नाभयपुरआरात्रिके स्थितोऽस्ति दिव्यधवलवासाश्चान्दनतिलको दिव्यपदकहारभूषितोरस्थलः। सूरीणां कवीनां श्रावकश्राविकाणां |च नतिः । तिलकं तिलकोपरि । पुष्पसपुष्पस्रगुपरि । तदा सूत्रधारेणैकेन दारवी कुमरादेव्या मातुर्मूर्तिमहन्तकायनवीनघटिता दृष्टौ कृता । उक्तं च तेन-" मातुर्मूर्तिरियम् । तदा मन्त्रीश्वरेणाशिवानखं दृष्टा मूर्तिः। दृष्ट्वा च रुदितम् । प्रथममश्रुमात्रं ततोऽव्यक्तइतरो ध्वनिः । ततो व्यक्ततरः। सर्वे तटस्थाः पृच्छन्ति-" देव ! किं कारणं रुद्यते ?। हर्षस्थाने को विषादः। यथा श्रुतशील इव नलस्य । उद्धव श्व विष्णोः । अभय इव श्रेणिकस्य । कल्पक इव नन्दस्य । जम्बक इव कनराजस्य । विद्याधर इव जयन्तराजस्य । आलिग इव सिद्धराजस्य । उदयन इव कुमारपालस्य । तथा त्वं मन्त्री वीरधवलस्य । विपट्टीताः पर्वता इव सागरं तथा त्वामाश्रयन्ति भूपाः । तायेणेव पन्नगास्तथा त्वया हताः सपत्नाः पृथिवीपालाः । चन्द्राय इव चकोरास्तथा तुभ्यं स्पृहयन्ति स्वजनाः। हिमवत इच गङ्गा तथा त्वत्प्रभवति राजनीतिः। भानोरिव पद्मास्तथा तवोदयमीहन्ते सूरयः। विष्णाविव त्वयि रमते श्री। तन्नास्ति यन्नास्ति ते । एवं सति किमर्थं दुःखं धियते।" ततो मन्त्रिणोक्तम्- “इदं दुःखं यन्मे भाग्य सङ्घनधिपत्यादिविभूतिर्मातृमरणादनन्तरं सम्पन्नाः । यदि तु सा मे माता इदानीं स्यात् । तदा स्वहस्तेन मङ्गलानि कुर्वत्यास्तस्या मम च मङ्गलानि कारयतः पश्यतश्च ॥॥१२२॥ For Private And Personal

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283