Book Title: Chaturvinshati Prabandh
Author(s): Rajshekharsuri
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 270
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir धदानैविक्रमादित्य इव प्रकाश्य महिमानं विमृज्य स्वस्थाने लोकं सपरिजनो धवलकं गत्वा प्रभु नत्वा सुखं तस्थौ। इतश्च श्रीवीरधवलस्य द्वौ पुत्रौ स्तः। एको वीरमः । अपरो वीसलः । तत्र वीरमो यौवनस्थः शरेषु रेखां प्राप्तः । यो वर्षाकालेऽकस्मादुपरि पतन्त्या विद्युत उद्देशेन कृपाणीमाकृषत् । स एकदा कचिदेकादशीपर्वणि धवलक्षकमध्ये तरुतलमगमत् । तत्र पर्वण्यसौ रीतिः-'वैष्णवैः सर्वैरष्टोत्तरशतं बदराणां वा आमलकानां द्रम्माणां वा मोक्तव्यं तरोरधः।' वीरमेनाऽष्टोत्तरं शतं द्रम्मा मुक्ताः । एकेन तु वणिजा तत्र स्थितेनाष्टोत्त| रशत दुःकृता मुक्ता । वीरमेण तस्योपरि कृपाणिका कृष्टा । रे ! अस्मत्तः किमधिकं करोषीति वदन्नसी वणिजं हन्तुमन्वधावत् । वणिग् नष्टो वीरधवलाध्यासितां सभामाविशत् । जातः कलकलः । ज्ञातं पारंपर्यं वीरधवलेन । वणिजि पश्यति वीरमो आकार्य हकित:-"का ते चर्चा | यद्ययं त्वदधिकं करोति । अस्माकं न्यायं न वेत्सि । दूरे भव पुनर्मदृष्टौ नागन्तव्यम् । वणिजो मम जङ्गमः कोशः । मयि जीवति सति केनाभिभूयन्ते।" इत्युक्त्वा तं वीरमग्रामाख्ये आसन्नग्रामेऽतिष्ठिपत् । स तु कोणिककुमारवत् कंसवत् पितारे द्विष्टो जीवन्मृतंमन्योऽस्थात् । वीसलस्तु राणश्रीवीरधवलस्य वल्लभः श्रीवस्तुपालस्य च । अत्रान्तरे श्रीवीरधवलोऽचिकित्स्येन व्याधिना जग्रसे। तदा वीरमः स्वसहायैर्बलवान् भूत्वा राज्यार्थं राणकमिलनमिषेण 'धवलक्क For Private And Personal

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283