Book Title: Chaturvinshati Prabandh
Author(s): Rajshekharsuri
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पतुर्विशति ॥ १३४॥
मासान्मांसलपाटलापरिमलव्यालोलरोलम्बतः प्राप्य प्रोदिमिमां समीरमहतीं हन्त त्वया किं कृतम् । सूर्याचन्द्रमसौ निरस्ततमसौ दूरं तिरस्कृत्य यत् पादस्पर्शसहं विहायसि रजः स्थाने तयोः स्थापितम् ॥१॥ निवर्तितं दिव्यं राज्ञा।
अथ कदाचिद् धवलकके मन्त्रिणि वसति सति पौषधशाला एका आस्ते। तस्या उपरितनं पुञ्जकं क्षुल्लकोऽधः क्षिपन्नासीत्। तस्याज्ञानात् स पुञ्जको वीसलदेवमातुलस्य सिंहनानो यानाधिरूढस्याधो रथ्यायां गच्छतः शिरसि पतितः । क्रुद्धः सः मध्ये आगत्य क्षुल्लक दीर्घया तर्जनकेन पृष्टे दृढमाहत्य रे मां जेआकं सिंहनामानं राजमातुलं न जानासीति वदन स्वगृहे गतः । तं वृत्तान्तं मध्याह्ने मन्त्रिवस्तुपालं भोजगारम्भे उत्क्षिप्तप्रथमकवलं आगत्य रुदन्नुघाटितपृष्टोऽभिजिज्ञपत् क्षुल्लकः। मन्त्रिणाऽभुक्तेनैव उत्थाय क्षुल्लकः सन्धार्य प्रस्थापितः, शालायां प्रेषितश्च । तदनु स्वयं स्वकीयः परिग्रहो भाषित:-" भोः क्षत्रियाः ! स कोऽप्यस्ति युष्मासु मध्ये यो मम मनोदाहमुपशमयति ।" तन्मध्ये एकेन राजपुत्रेण भूणपालाख्येनोक्तम्| "देव ! ममादेशं देहि । अहं तु प्राणदानेऽपि तव प्रसादानां नाऽनृणीभवामः।" स एकान्ते नीत्वा मन्त्रिणा छन्नं कर्णे प्रविश्य समादिष्टम्-"याहि जेठुआवंशस्य राजमातुलस्य सिंहस्य दक्षिणं पाणिं छिस्वा मे ढोकय।" | स राजपुत्रस्तथेत्युक्त्वा एकाकी मध्याहे सिंहावासद्वारे तस्थौ। तावता राजकुलात् सिंह आगात् । राजपु
॥१४॥
For Private And Personal

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283