Book Title: Chaturvinshati Prabandh
Author(s): Rajshekharsuri
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
या रागिणि विरागिण्यः स्त्रियस्ताः कामयेत कः । तामहं कामये मुक्ति या विरागिणि रागिणी ॥३॥ शास्त्राभ्यासो जिनपतिनुतिः सङ्गतिः सर्वदाऽऽयः, सद्वृत्तानां गुणगणकथा दोषवादे च मौतम् । सर्वस्यापि प्रियहितवचो भावना चात्मतत्त्वे, सम्पद्यन्तां मम भवभवे यावदाप्तोपवर्गः ॥४॥ इति भणन्नेवास्तमितो जैनशासनगगनमण्डनमृगाङ्कः श्रीवस्तुपालः। तदा निग्रन्थैरपि तारपूत्कारमरोदि। का कथा सोदरादीनाम् । मन्त्रिणि दिवं गते श्रीवर्द्धमानसूरयो वैराग्यादाम्बिलवर्द्धमानतपः कर्तुं नारेभुः। मृत्वा शंखेश्वराधिष्ठायकतया जाताः । तैमन्त्रिणो गतिर्विलोकिता, परं न ज्ञाता। ततो महाविदेहे गत्वा श्रीसीमन्धरो नत्वा पृष्टः। स्वाम्याह-"अत्रैव विदेहे पुष्कलावत्यां पुण्डरीकिण्यां पुरि कुरुचन्द्रराजा संजातः। स तृतीये भवे सेत्स्यति । अनुपमदेजीवस्तु अत्रैव श्रेष्ठिसुताऽष्टवार्षिकी मया दीक्षिता पूर्वकोट्यायुः। प्रान्ते केवलं मोक्षश्च ।” सा एषा साध्वी व्यन्तरस्य दर्शिता । तदनु तेन व्यन्तरेणात्रागत्य तयोर्गतिः प्रकटिता। तत्र तेजःपालो विलपति
आल्हादं कुमुदाकरस्य जलधेवृद्धिः सुधास्यन्दिभिः, प्रद्योतैर्नितरां चकोरवनितानेत्राम्बुजप्रीणनम् । एतत्सर्वमनाइरादहृदयोऽनादृत्य राहुहहा, कष्टं चन्द्रमसं ललाटतिलकं त्रैलोक्यलण्याः पपी ॥१॥
For Private And Personal

Page Navigation
1 ... 276 277 278 279 280 281 282 283