Book Title: Chaturvinshati Prabandh
Author(s): Rajshekharsuri
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kalashsagarsuri Gyanmandir
प्रबन्ध
चतुर्विशति ॥ १३८ ।
नां सशय्यापालकानाम् । सप्तशती सुखासनानाम् , अष्टादशशती वाहिनीनाम् । एकोनविंशतिशतानि श्रीकरीणाम् । एकविंशतिः शतानि श्वेताम्बराणाम् । एकादशशती दिगम्बराणाम् । चत्वारि शतानि सा
भनि जैनगायनानाम् । त्रयस्त्रिंशच्छती बन्दिजनानाम् । चतुःसहस्रतुरगाः। द्विसहस्रोष्टाः । चतुश्चत्वारिंश| दधिकशतं देवार्याः । सप्तलक्षमनुष्याः । इदं प्रथमयात्राप्रमाणम् । अग्रेतना तदधिका ज्ञेया। तथा चतुरशी-2 तिस्तडागाः सुबद्धाः । चतुः शती चतुःषष्ठयधिका वापीनाम् । पाषाणमयानि द्वात्रिंशद् दुर्गाणि । चतुः षष्ठिर्मशीतयः। एवं लौकिकमपि कृतं मनो विनापि । तथा दन्तमयजनरथानां चतुर्विंशतिः। विंशतिशतं शाकघटितानां । एकविंशत्याचार्यपदानि कारितानि । सरस्वतीकण्ठाभरणादीनि चतुर्विंशतिविरुदानि भाषितानि कविजनैः। श्रीवस्तुपालस्य दक्षिणस्यां दिशि श्रीपर्वतं यावत् , उत्तरस्यां केदारपर्वतं यावत् , पूर्वस्यां वाणारसी यावत् , पश्चिमायां पञ्चनदं यावत् , तयोः कीर्तनानि श्रूयन्ते । सर्वाग्रेण त्रीणि कोटिशतानि चतुर्दशलक्षा अष्टादशसहस्राणि अष्टशतानि द्रव्यव्ययः पुण्यस्थाने । त्रिषष्टिवारान् सङ्ग्रामे जैत्रपदं गृहीतम् । अष्टादश वर्षाणि तयोावृतिः॥"
इति श्रीवस्तुपालप्रवन्धः।।
॥ १३८॥
For Private And Personal

Page Navigation
1 ... 279 280 281 282 283