Book Title: Chaturvinshati Prabandh
Author(s): Rajshekharsuri
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 280
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ततः श्रीजयन्तसिंहोऽपि परलोकमभजत् । श्रीअनुपमापि तपसा स्वर्गमसाधयदिति भद्रम् । एतयोश्च श्रीवस्तुपालतेजःपालयोधर्मस्थानसङ्ख्यां कर्तुं क ईश्वरः । परं गुरुमुखश्रुतं किञ्चिल्लिख्यते-“लक्षमेकं सपादं जिनबिम्बानां विधापितम् । अष्टादश कोट्यः षण्णवतिर्लक्षाः श्रीशत्रुञ्जयतीर्थे द्रविणं व्ययितम् । द्वादश कोट्योऽशीतिलक्षाः श्रीउज्जयन्ते। द्वादशकोट्यस्त्रिपंवाशल्लक्षाः अर्बुदगिरिशिखरे लूणिगवसत्याम् । नवशतानि चतुरशीतिश्च पौषधशालाः कारिताः । पञ्चशतानि दन्तमयसिंहासनानां कारापणम् । सूरीणां प्रत्येकमुपवेशनार्थमर्पणम् । पञ्चशतानि पश्चोत्तराणि समवसरणानां जादरमयानां कारणं श्रीकल्पवाचनाक्षणे मण्डनार्थम् । ब्रह्मशालाः सप्तशतानि । सप्तशतानि सत्रागाराणाम् । सप्तशती तपस्विकापालिकमठानाम् । तेषां सर्वेषां भोजननिर्वापादि दानं कृतं । पञ्चविंशतिशतानि हरिहरब्रह्मादिमहेश्वरायतनानाम् । त्रयोदशशतानि चतुरुत्तराणि शिखरबद्धजैनप्रासादानाम् । त्रयोविंशतिःशतानि जीर्णचैत्योद्धाराणाम् अष्टादश कोटिव्ययेन सरस्वतीभाण्डागाराणां त्रयाणां स्थानत्रये करणं धवलकस्तम्भतीर्थपत्तनादौ । पञ्चशती ब्राह्मणानां नित्यं वेदपाठं कारयति स्म । तेषां गृहमानुषाणां निर्वाहकरणम् । वर्षमध्ये सङ्घपूजात्रितयं सर्वदर्शनिनाम् ।। पञ्चदशशती श्रमणानां नित्यं गृहे विहरति स्म । बटुककटिककार्यटिकानां सहस्रं समधिकं प्रत्यहमभुक्त। त्रयोदशयात्राः सङ्घपतीभूय कारिताः लोकानां । तन्त्र प्रथमयात्रायां चत्वारि सहस्राणि पश्चशतानि शकटा For Private And Personal

Loading...

Page Navigation
1 ... 278 279 280 281 282 283