Book Title: Chaturvinshati Prabandh
Author(s): Rajshekharsuri
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भोजयता मन्त्रिणा नागपुरीयाणामेकपङ्कित्वं दृष्ट्वा शिरो धूनितम् । अहो ! शुद्धा लोका एते । एवं भोजयित्वा परिधाप्य च रञ्जितो नागपुरसङ्घः । गती वस्तुपालपूनडी श्रीशत्रुञ्जयं ससङ्घौ । वन्दितः श्रीषभः । एकदा लाने सति देवार्चको देवस्य नासां पिधत्ते पुष्पैः। किल कलसेन नासां मापीडीदित्याशयतः। तदा मन्त्रिणा चिन्तितम्-"कदाचिदैवाद् देवाधिदेवस्य कलशादिना परचक्रेण वाऽवक्तव्यममङ्गलं भवेत् तदा का गतिः सङ्घस्य ।" इति चिन्तयित्वा पूनड आलेपे-" भ्रातः! सङ्कल्पोऽयमेवं मे संवृत्तः। यदि बिम्बान्तरमझममम्माणीमयं क्रियते तदा सुन्दरम् । तत्तु सुरत्राणमोजदीनमित्रे त्वयि यतमाने स्यानान्यथा ।" पूनडेनोक्तम्-"ततः गतैश्चिन्तयिष्यतेऽदः।” इत्यादि वन्दतौरैवतादितीर्थान् वन्दित्वा व्यावृत्ती तो । गतः पूनडो नागपुरम् । मन्त्री स्तम्भतीर्थे राज्यं शास्ति ।
एवं स्थितेऽन्येयुः सुरत्राणमोजदीनमाता वृद्धा हजयात्रार्थिनी स्तम्भपुरमागता। नौवित्तगृहेऽतिथित्वेना|| स्थात् । सा समागता सचिवेन चरेभ्यो ज्ञाता । चराः प्रोक्ताः श्रीमन्त्रिणा-" रे ! यदा इयं जलपथेन याति | तदा मे ज्ञाप्या।" तैस्तथा कृतम् । गच्छन्ती ज्ञापिता। मन्त्रिणा निजकोलिकान् प्रेष्य तस्याः सर्व कोटीम्बकस्थं वस्तु ग्राहितम् । सुष्टु रक्षापितं च क्वचित् । तदा नौवित्तैः पूत्कृतं उपमन्त्रि-“देव ! जरत्येकाऽस्मदयूथ्या हजयात्रायै गच्छन्ती त्वत्पद्रे तस्करैलुण्टिता।" मन्त्रिणा पृष्टम्-"का सा जरती?" तैरुक्तम्
For Private And Personal

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283