Book Title: Chaturvinshati Prabandh
Author(s): Rajshekharsuri
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चतुर्विशति ॥१२६ ॥
श्रीतीर्थपान्धरजसा विरजीभवन्ति तीर्थेषु पम्भ्रमतो न भवे भ्रमन्ति ।
द्रव्यव्ययादिह नराः स्थिरसम्पदः स्युः पूज्या भवन्ति जमदीशमथार्चयन्तः ॥१॥ ततः सङ्कपतिपूनडमन्त्रिणोढमालिङ्गनप्रियालापौ संवृत्तौ । सरस्तीरे स्थितः सङ्कः। रात्री श्रीवस्नुपालेन कथापितं पूनडाय पुण्यात्मने-"प्रातः सर्वसङ्ग्रेनास्मदावासे भोक्तव्यम् । धूमो न कार्यः।" पूनडेन तथेति प्रतिपन्नम् । रात्री मण्डपो द्विद्वारो रसवतीप्रकारश्च । सर्व निष्पन्नम् । भोजनमण्डपे प्रातरायान्ति नागपुरीयाः । सर्वेषां चरणक्षालनं तिलकरचनां च श्रीवस्तुपाला स्वहस्तेन करोति । एवं लग्ना द्विप्रहरी। मन्त्री तु तथैवानिर्विणः । तदा तेजःपालेन विज्ञप्तम्-"देव ! अन्यैरपि सङ्घभक्तिः कारयिष्यते । यूयं मुग्ध्वम् । तापो भावी ।” मन्त्री भणति-"मैवं वादी । पुण्यैरयमवसरो लभ्यते।" गुरुभिरपि कथापितम्
यस्मिन् कुले यः पुरुषः प्रधानः स एव यक्षेन हि रक्षणीयः।
सस्मिन् विनष्टे हि कुलं विनष्टं न नाभिभने स्वरका वहन्ति ॥१॥ तस्माद् भोक्तव्यं भवद्भिः।" मन्त्रिणा गुरून प्रति पुनरिदं काव्यं प्रहितम्
“अद्य मे फलवती पितुराशा मातुराशिखशिखां कुरुताय । यदु युगादिजिनयात्रिकलोकं, पूजयाम्यहमशेषमखिन्नः॥२॥
For Private And Personal

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283