Book Title: Chaturvinshati Prabandh
Author(s): Rajshekharsuri
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 252
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir |" कथमुत्सुका इव यूयम् ।” तैर्विज्ञप्तम्-" देव ! वयं दूरात् पुष्पाण्याहार्मः । सङ्घः किल शत्रुचयशिखरे ऽस्ति । प्रकृष्ट मूल्यं लप्स्यामहे । तत्पुनरन्यथा जातम् । सङ्घश्चलितः । तस्मादभाग्या वयमिति ।” तेषां | दैन्यं दृष्ट्वा मन्त्रिणाऽभाणि-" अत्रैव स्थीयतामृध्वैः क्षणम् ।” तावता पाश्चात्यं सर्वमायातं । श्रीवस्तुपालेन स्वकुटुम्ब सङ्घश्चाभाण्यतां । यथा-" भो धन्या ! सर्वेषां पूर्णस्तीर्थवन्दनपूजाभिलाषः।” लोकेनोक्तम्" भवत्प्रसादात्पूर्णः।” मन्त्र्याह-" किमपि तीर्थमपूजितं स्थितमस्ति ।” लोकः प्राह-"प्रत्येकं सर्वाणि तीर्थानि पूजितानि ध्यातानि ।” मन्त्रिमहेन्द्रः प्राह-" यद्विस्मृतं तन्न जानीथ यूयम् । वयं स्मारयामः।" सङ्को वदति-"किं विस्मृतं, तत्कथयन्तु ।" मन्त्री वदति-" भो लोकाः! पूर्व तीर्थमयं पर्वतः । यत्र स्वयमृषभदेवः समवासार्षीत् । ततो नेमिवर्जितात्रयोविंशतिर्जिनाः समवासार्षुः । असङ्ख्याः सिद्धाश्च यत्र । सादिः कथं न तीर्थम् ? । लोकोऽप्याह-"सत्यं तीर्थमयं पर्वतः।" तर्हि पूज्यताम् । पुष्पादीनि क्वेति चेद कथयिष्यन् नदा इमे मालिका इमानि पुष्पाणि वः पुण्यरुपास्थिषतेति।" तप्तः सङ्ग्रेन तानि पुष्पाणि गृहीत्वाऽद्रिपूजा कृता । द्रम्मेण पुष्पं जातम् । नालिकेरास्फालनवस्त्रदानादिकेलयश्च । तुष्टा मालिकाः। एवं पराशाभङ्गपराङ्मुखः आसराजभूः । ततः शनैः शनैः पशुतुरङ्गशिश्वाद्यपीडया सङ्घो रैवतकमारोह च । नेमिनि दृष्टे मन्त्री ननत । पपाठ च आनन्दाश्रुनिझरिताक्षः For Private And Personal

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283